वृद्धयोरन्धयोर्दृष्टिस्त्वयि वंशः प्रतिष्ठिः। त्वयि पिण्डश्च कीर्तिश्च सन्तानश्चावयोरिति
माता वृद्धा पिता वृद्धस्तयोर्यष्टिरहं किल। तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यतः
निद्रायाश्चाभ्यसूयामि यस्या हेतोः पिता मम। माता च संशयं प्राप्ता मत्कृतेऽनपकारिणी
अहं च संशयं प्राप्तः कृच्छ्रामापदमास्थितः। मातापितृभ्यां हि विना नाहं जीवितुमुत्सहे
व्यक्तमाकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम। एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनम्
नात्मानमनुशोचामि यथाऽहंपितरं शुभे। भर्तारं चाप्यनुगतां मातरं भृशदुःखिताम्
मत्कृते न हि तावद्य सन्तापं परमेष्यतः। जीवन्तावनुजीवामि भर्तव्यौ तौ मयेति ह
तयोः प्रियं मे कर्व्यमिति जीवामि चाप्यहम्। `परमं दैवतं तौ मे पूजनीयौ सदा मया। तयोस्तु मे सदाऽस्त्येवं व्रतमेतत्पुरातनम्
एवमुक्त्वा स धर्मात्मा गुरुभक्तो गुरुप्रियः। उच्छ्रित्य बाहू दुःखार्तः सुस्वरं प्ररुरोद ह
ततोऽब्रवीत्तथा दृष्ट्वाभर्तारं शोककर्शितम्। प्रमृज्याश्रूणि पाणिभ्यां सावित्री धर्मचारिणी
यदि मेऽस्ति तपस्तप्तं यदि दत्तं हुतं यदि। श्वश्रूश्वशुरभर्तॄणां मम पुण्याऽस्तु शर्वरी
न स्मराम्युक्तपूर्वं वै स्वैरेष्वप्यनृतां गिरम्। तेन सत्येन तावद्य ध्रियेतां श्वशुरौ मम
कामये दर्शनं पित्रोर्याहि सावित्रि माचिरम्। `अपिनाम गुरू तौ हि पश्येयं ध्रियमाणकौ
पुरा मातुः पितुर्वाऽपियदि पश्यामि विप्रियम्। न जीविष्ये वरारोहे सत्येनात्मानमालभे
यदि धर्मे च ते बुद्धिर्मां चेज्जीवन्तमिच्छसि। मम प्रियं वा कर्तव्यं गच्छावाश्रममन्तिकात्
सावित्री तत उत्थाय केशान्संम्य भामिनी। पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै
उत्ताय सत्यवांश्चापि प्रमृज्याङ्गानि पाणिना। सर्वा दिशः समालोक्य कठिने दृष्टिमादधे
तमुवाचाथसावित्री श्वः फलानि हरिष्यसि। योगक्षेमार्थमेतं ते नेष्यामि परशुं त्वहम्
कृत्त्वा कठिनभारं सा वृक्षशाखावलम्बिनम्। गृहीत्वा परशुं भर्तुः सकाशे पुनरागमत्
वामे स्कन्धे तु वामोरूर्भर्तुर्बाहुं निवेश्य च। दक्षिणएन परिष्वज्य जगाम गजगामिनी
अभ्यासगमनाद्भीरु पन्थानो विदिता मम। वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये
आगतौ स्वः पथा येन फलान्यवचितानि च। यथागतं शुभे गच्छ पन्थानं मा विचारय
पलाशखण्डे चैतस्मिन्पन्था व्यावर्तते द्विधा। तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च
स्वस्थोस्मि बलवानस्मि दिदृक्षुः पितरावुभौ। ब्रुवन्नेव त्वरायुक्तः सम्प्रायादाश्रमं प्रति
एतस्मिन्नेव काले तु द्युमत्सेनो महाबलः। लब्धचक्षुः प्रसन्नायां दृष्ट्यां सर्वं ददर्श ह
स सर्वानाश्रमान्गत्वा शैब्यया सह भार्यया। पुत्रहेतोः परामार्तिं जगाम भरतर्षभ
तावाश्रमान्नदीश्चैववनानि च सरांसि च। तस्यां निशि विचिन्वन्तौ दम्पती परिजग्मतुः
श्रुत्वा शब्दं तु यं कंचिदुन्मुखौ सुतशङ्कया। सावित्रीसहितोऽभ्येति सत्यवानित्यभाषताम्
भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः। कुशकणअटकविद्धाङ्गावुनमत्ताविव धावतः
ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः। परिवार्य समाश्वास्य तावानीतौ स्वमाश्रमम्