ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः। ख्यातास्त्वन्नामधेयाश्चभविष्यन्तीह शाश्वताः
पितुश्च ते पुत्रशतं भविता तव मातरि। मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः। भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः
एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान्। निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ
सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च। जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम्
सा भूमौ प्रेक्ष्यभर्तारमुपसृत्योपगृह्य च। उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह
संज्ञां चस पुनर्लब्ध्वा सावित्रीमभ्यभाषत। प्रोष्यागत इव प्रेम्णा पुनःपुनरुदीक्ष्यवै
सुचिरं बत सुप्तोस्मि किमर्थं नावबोधितः। क्व चासौ पुरुषः श्यामो योसौ मां संचकर्षह
सुचिरं त्वंप्रसुप्तोसि ममाह्के पुरुषर्षभ। गतः स भगवान्देवः प्रजासंयमनो यमः
विश्रान्तोसि महाभाग विनिद्रश्च नृपात्मज। यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम्
उपलभ्यततः संज्ञां सुखसुप्त इवोत्थितः। दिशः सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान्
फलाहारोस्मि निष्क्रान्तस्वया सह सुमध्यमे। ततः पाटयतः काष्ठं शरिसो मे रुजाऽभवत्
शिरोभितापसंतप्तः स्थातुं चिरमशक्नुवन्। तवोत्सङ्गे प्रसुप्तोस्मि इति सर्वं स्मरे शुभे
त्वयोपगूढस्य च मे निद्रयाऽपहृतं मनः। ततोऽपश्यं तमो घोरं पुरुषं च महौजसम्
तद्यदि त्वं विजानासि किं तद्ब्रूहि सुमध्यमे। स्वप्नो मे यदिवा दृष्टो यदि वा सत्यमेव तत्
तमुवाचाथ सावित्री रजनी व्यवगाहते। श्वस्ते सर्वंयथावृत्तमाख्यास्यामि नृपात्मज
उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत। विगाढा रजनी चेयं निवृत्तश्च दिवाकरः
नक्तंचराश्चरन्त्येते हृष्टाः क्रूराभिभाषिणः। श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने
एता घोरं शिवा नादान्दिशं दक्षिणपश्चिमाम्। आस्थाय विरुवन्त्युग्राः कम्पयन्त्यो मनो मम
वनं प्रतिभयाकारं घनेन तमसा वृतम्। न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि
अस्मिन्न वने दग्धे शुष्कवृक्षः स्थितो ज्वलन्। वायुना धम्यमानोत्र दृश्यतेऽग्निः क्वचित्क्वचित्
ततोऽग्निमानयित्वेह ज्वालयिप्यामि सर्वतः। काष्ठानीमानि सन्तीह जहि संतापमात्मनः
यदि नोत्सहसे गन्तुं सरुजं त्वां हि लक्षये। न च ज्ञास्यसि पन्थानं तमसा संवृते वने
श्वः प्रभाते वने दृश्ये यास्यावोऽनुमते तव। वसावेह क्षपामेकां रुचितं यदि तेऽनघ
शिरोरुजा निवृत्ता मे स्वस्थान्यङ्गानि लक्षये। मातापितृभ्यामिच्छामि संयोगं त्वत्प्रसादजम्
न कदाचिद्विकाले हि गतपूर्वोहमाश्रमात्। अनागतायां सन्ध्यायां माता मे प्ररुणद्धि माम्
दिवाऽपिमयि निष्क्रान्ते सन्तप्येते गुरू मम। विचिनोति हि मां तातः सहैवाश्रमवासिभिः
मात्रा पित्रा च सुभृशं दुःखिताभ्यामहं पुरा। उपालब्धश्च बहुशश्चिरेणागच्छसीति हि
कात्ववस्था तयोरद्य मदर्थमिति चिन्तये। तयोरदृश्ये मयि च महद्दुःखं भविष्यति
पुरा मामूचतुश्चैव रात्रावस्रायमाणकौ। भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ
त्वया हीनौ न जीवाव मुहूर्तमपि पुत्रक। यावद्धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम्