आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम्। सन्तः परार्थं कुर्वाणा नावेक्षन्ति प्रतिक्रियाः
न च प्रसादः सत्पुरुषेषु मोघो न चाप्यर्थो नश्यति नापि मानः। यस्मादेतन्नियतं सत्सु नित्यं तस्मात्सन्तो रक्षितारो भवन्ति
यथायथा भाषसि धर्मसंहितं मनोनुकूलं सुपदं महार्थवत्। तथातथा मे त्वयि भक्तिरुत्तमा वरं वृणीष्वाप्रतिमं पतिव्रते
न तेऽपवर्गः सुकृताद्विना कृत- स्तथा यथाऽन्येषु वरेषु मानद। वरं वृणे जीवतु सत्यवानयं यथा मृता ह्येवमहं पतिं विना
न कामये भर्तविनाकृता सुखं न कामये भर्तृविनाकृता दिवम्। नकामये भर्तविनाकृता श्रियं न भर्तृहीना व्यवसामि जीबितुम्
वरातिसर्गः शतपुत्रता मम त्वयैव दत्तो ह्रियते च मे पतिः। वरं वृणे जीवतु सत्यवानयं तवैव सत्यं वचनं भविष्यति
तथेत्युक्त्वा तु तं पाशं मुक्त्वा वैवस्वतो यमः। धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत्
एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि। `तोषितोऽहं त्वया साध्वि वाक्यैर्धर्मार्तसंहितैः
अरोगस्व नेयश्च सिद्धार्थः स भविष्यि। चतुर्वर्षशतायुश्च त्वया सार्धमवाप्स्यति
इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति। त्वयि पुत्रशतं चैव सत्यवाञ्जनयिष्यति
ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः। ख्यातास्त्वन्नामधेयाश्चभविष्यन्तीह शाश्वताः
पितुश्च ते पुत्रशतं भविता तव मातरि। मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः। भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः
एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान्। निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ
सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च। जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम्
सा भूमौ प्रेक्ष्यभर्तारमुपसृत्योपगृह्य च। उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह
संज्ञां चस पुनर्लब्ध्वा सावित्रीमभ्यभाषत। प्रोष्यागत इव प्रेम्णा पुनःपुनरुदीक्ष्यवै
सुचिरं बत सुप्तोस्मि किमर्थं नावबोधितः। क्व चासौ पुरुषः श्यामो योसौ मां संचकर्षह
सुचिरं त्वंप्रसुप्तोसि ममाह्के पुरुषर्षभ। गतः स भगवान्देवः प्रजासंयमनो यमः
विश्रान्तोसि महाभाग विनिद्रश्च नृपात्मज। यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम्
उपलभ्यततः संज्ञां सुखसुप्त इवोत्थितः। दिशः सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान्
फलाहारोस्मि निष्क्रान्तस्वया सह सुमध्यमे। ततः पाटयतः काष्ठं शरिसो मे रुजाऽभवत्
शिरोभितापसंतप्तः स्थातुं चिरमशक्नुवन्। तवोत्सङ्गे प्रसुप्तोस्मि इति सर्वं स्मरे शुभे
त्वयोपगूढस्य च मे निद्रयाऽपहृतं मनः। ततोऽपश्यं तमो घोरं पुरुषं च महौजसम्
तद्यदि त्वं विजानासि किं तद्ब्रूहि सुमध्यमे। स्वप्नो मे यदिवा दृष्टो यदि वा सत्यमेव तत्
तमुवाचाथ सावित्री रजनी व्यवगाहते। श्वस्ते सर्वंयथावृत्तमाख्यास्यामि नृपात्मज
उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत। विगाढा रजनी चेयं निवृत्तश्च दिवाकरः
नक्तंचराश्चरन्त्येते हृष्टाः क्रूराभिभाषिणः। श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने
एता घोरं शिवा नादान्दिशं दक्षिणपश्चिमाम्। आस्थाय विरुवन्त्युग्राः कम्पयन्त्यो मनो मम
वनं प्रतिभयाकारं घनेन तमसा वृतम्। न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि
अस्मिन्न वने दग्धे शुष्कवृक्षः स्थितो ज्वलन्। वायुना धम्यमानोत्र दृश्यतेऽग्निः क्वचित्क्वचित्