श्रमः कुतो भर्तृसमीपतो हिमे यतो हि भर्ता मम सा गतिर्ध्रुवा। यतः पतिं नमेष्यसि तत्र मे गतिः सुरेश भूयश्च वचो निबोध मे
सतां सकृत्संगतमीप्सितं परं ततः परं मित्रमिति प्रचक्षते। न चाफलं सत्पुरुषेण संगतं ततः सतां संनिवसेत्समागमे
मनोनुकूलं बुधबुद्धिवर्धनं त्वया यदुक्तं वचनं हिताश्रयम्। विना पुनः सत्यवतोस्य जीवितं वरं द्वितीयं वरयस्व भामिनि
हृतंपुरा मे श्वशुरस्य धीमतः स्वमेव राज्यंलभतां स पार्थिवः। कजह्यात्स्वधर्मान्न च मे गुरुर्यथा द्वितीयमेतद्वरयामि ते वरम्
स्वमेवं राज्यं प्रतिपत्स्यतेऽचिरा- न्न च स्वधर्मात्परिहीयते नृपः। कृतेन कामेन मया नृपात्मजे निवर्त गच्छस्व न ते श्रमो भवेत्
प्रजास्त्वयैता नियमेन संयता नियम्य चैता नयसे निकामया। ततो यमत्वं तव देव विश्रुतं निबोध चेमां गिरमीरितां मया
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा। अनुग्रहश्च दानं च सतां धर्मः सनातनः
एवंप्रायश्च लोकोऽयं मनुष्याः शक्तिपेशलाः। सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते
पिपासितस्येव भवेद्यथा पय- स्तथा त्वया वाक्यमिदं समीरितम्। विना पुनः सत्यवतोऽस्य जीवितं वरं वृणीष्वेह शुभे यदिच्छसि
ममानपत्यः पृथिवीपतिः पिता भवत्पितुः पुत्रशतं तथौरसम्। कुलस्य संतानकरं च यद्भवे- त्तृतीयमेतद्वरयामि ते वरम्
कुलस्य संतानकरं सुवर्चसं शतं सुतानां पितुरस्तु ते शुभे। कृतेन कामेन नराधिपात्मजे निवर्त दूरं हि पथस्त्वमागता
न दूरमेतन्मम भर्तृसन्निधौ मनो हि मे दूरतरं प्रधावति। अथ व्रजन्नेव गिरं समुद्यतां मयोच्यमानां शृणु भूय एव च
विवस्वतस्त्वं तनयऋ प्रतापवां- स्ततो हि वैवस्वत उच्यसे बुधैः। समेन धर्मेण चरन्ति ताः प्रजा- स्ततस्तवेहेवर धर्मराजता
आत्मन्यपि न विश्वासस्तथा भवति सत्सु यः। तस्मात्सत्सु विशेपेण सर्वः प्रणयमिच्छति
सौहदात्सर्वभूतानां विश्वासो नाम जायते। तस्मात्सत्सु विशेपेण विश्वासं कुरुते जनः
उदाहृतंते वचनं यदङ्गने शुभे न तादृक् त्वदृते श्रुतं मया। अनेन तुष्टोस्मि विनाऽस्य जीवितं वरं चतुर्थं वरयस्व गच्छ च
ममात्मजं सत्यवतस्तथौरसं भवेदुभाभ्यामिह यत्कुलोद्वहम्। शतं सुतानां बलवीर्यशालिना- मिदंचतुर्थं वरयामि ते वरम्
शतं सुतानां बलवीरय्शालिनां भविष्यति प्रीतिकरं तवाबले। परिश्रमस्ते न भवेन्नृपात्मजे निवर्त दूरं हि पथस्त्वमागता
सतां सदा शाश्वतधर्मवृत्तिः सन्तो न सीदन्ति न च व्यथन्ति। सतां सद्भिर्नाफलः संगमोस्ति सद्भ्यो भयंनानुवर्तन्ति सन्तः
सन्तो हि सत्येन नयन्ति सूर्यं सन्तो भूमिं तपसा धारयन्ति। सन्तो गतिर्भूतभव्यस्य राज- न्सतां मध्ये नावसीदन्ति सन्तः
आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम्। सन्तः परार्थं कुर्वाणा नावेक्षन्ति प्रतिक्रियाः
न च प्रसादः सत्पुरुषेषु मोघो न चाप्यर्थो नश्यति नापि मानः। यस्मादेतन्नियतं सत्सु नित्यं तस्मात्सन्तो रक्षितारो भवन्ति
यथायथा भाषसि धर्मसंहितं मनोनुकूलं सुपदं महार्थवत्। तथातथा मे त्वयि भक्तिरुत्तमा वरं वृणीष्वाप्रतिमं पतिव्रते
न तेऽपवर्गः सुकृताद्विना कृत- स्तथा यथाऽन्येषु वरेषु मानद। वरं वृणे जीवतु सत्यवानयं यथा मृता ह्येवमहं पतिं विना
न कामये भर्तविनाकृता सुखं न कामये भर्तृविनाकृता दिवम्। नकामये भर्तविनाकृता श्रियं न भर्तृहीना व्यवसामि जीबितुम्
वरातिसर्गः शतपुत्रता मम त्वयैव दत्तो ह्रियते च मे पतिः। वरं वृणे जीवतु सत्यवानयं तवैव सत्यं वचनं भविष्यति
तथेत्युक्त्वा तु तं पाशं मुक्त्वा वैवस्वतो यमः। धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत्
एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि। `तोषितोऽहं त्वया साध्वि वाक्यैर्धर्मार्तसंहितैः
अरोगस्व नेयश्च सिद्धार्थः स भविष्यि। चतुर्वर्षशतायुश्च त्वया सार्धमवाप्स्यति
इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति। त्वयि पुत्रशतं चैव सत्यवाञ्जनयिष्यति