तं दृष्ट्वासहसोत्थाय भर्तुन्यस्य शनैः शिरः। कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपती
दैवतंत्वाभिजानामि वपुरेतद्ध्यमानुषम्। कामया ब्रूहि देवेश कस्त्वं किंच चिकीर्षसि
पतिव्रताऽसि सावित्रि तथैव च तपोन्विता। अस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम्
अयं ते रसत्यवान्भर्ता क्षीणायुः पार्थिवात्मजः। नेष्यामि तमहं बद्ध्वा विद्ध्येतन्मे चीकिर्षितं
श्रूयते भगवन्दूतास्तवागच्छन्ति मानवान्। नेतुं किल भवान्कस्मादागतोसि स्वयं प्रभो
इत्युक्तः पितृराजस्तां भगवान्स्वचिकीर्षितम्। यथावत्सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे
अयं च धर्मसंयुक्तो रूपवान्गुणसागरः। नार्हो मत्पुरुषैर्नेतुमतोस्मि स्वयमागतः
ततः सत्यवतः कायात्पाशबद्धं वशंगतम्। अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्
ततः समुद्धृतप्राणं गतश्वासं हतप्रभम्। निरविचेष्टंशरीरं तद्बभूवाप्रियदर्सनम्
यमस्तु तं ततो बद्ध्वा प्रयातो दक्षिणामुखः। सावित्री चैव दुःखार्ता यममेवान्वगच्छत
भर्तुः शरीररां च विधाय हि तपस्विनी। भर्तारमनुगच्छन्ती तथावस्थं सुमध्यमा'। नियमव्रतसंसिद्धा महाभागा पतिव्रता
निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदैहिकम्। कृतंभर्तुस्त्वयाऽऽनृण्यं यावद्गम्यं गतं त्वया
यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति। मया च तत्र गन्तव्यमेष धर्मः सनातनः
तपसा गुरुभक्त्या च भर्तुः स्नेहाद्व्रतेन च। तव चैव प्रसादेन न मे प्रतिहता गतिः
प्राहुः साप्तपदं मैत्रं बुधास्तत्त्वार्थदर्शिनः। मित्रतां च पुरस्कृत्य किंचिद्वक्ष्यामि तच्छृणु
नानात्मवन्तस्तु वने चरन्ति धर्मं च वासं च परिश्रमं च। विज्ञानतो धर्ममुदाहरन्ति तस्मात्सन्तो धर्ममाहुः प्रधानम्
एकस्य धर्मेण सतां मतेन सर्वेस्म तं मार्गमनुप्रपन्नाः। मा वै द्वितीयं मा तृतीयं च वाञ्छे तस्मात्सन्तो धर्ममाहुः प्रधानम्
निवर्त तुष्टोस्मि तवानया गिरा स्वराक्षरव्यञ्जनहेतुयुक्तया। वरं वृणीष्वेहविनाऽस्य जीवितं ददानि ते सर्वमनिन्दिते वरम्
च्युतः स्वराज्याद्वनवासमाश्रितो विनष्टचक्षुः श्वशुरो ममाश्रमे। स लब्धचक्षुर्बलवान्भवेन्नृप- स्तव प्रसादाज्ज्वलनार्कसंनिभः
ददानि तेऽहं तमनिन्दिते वरं यथा त्वयोक्तं भविता च तत्तथा। तवाध्वना ग्लानिमिवोपलक्षये निवर्त गच्छस्व न ते श्रमो भवेत्
श्रमः कुतो भर्तृसमीपतो हिमे यतो हि भर्ता मम सा गतिर्ध्रुवा। यतः पतिं नमेष्यसि तत्र मे गतिः सुरेश भूयश्च वचो निबोध मे
सतां सकृत्संगतमीप्सितं परं ततः परं मित्रमिति प्रचक्षते। न चाफलं सत्पुरुषेण संगतं ततः सतां संनिवसेत्समागमे
मनोनुकूलं बुधबुद्धिवर्धनं त्वया यदुक्तं वचनं हिताश्रयम्। विना पुनः सत्यवतोस्य जीवितं वरं द्वितीयं वरयस्व भामिनि
हृतंपुरा मे श्वशुरस्य धीमतः स्वमेव राज्यंलभतां स पार्थिवः। कजह्यात्स्वधर्मान्न च मे गुरुर्यथा द्वितीयमेतद्वरयामि ते वरम्
स्वमेवं राज्यं प्रतिपत्स्यतेऽचिरा- न्न च स्वधर्मात्परिहीयते नृपः। कृतेन कामेन मया नृपात्मजे निवर्त गच्छस्व न ते श्रमो भवेत्
प्रजास्त्वयैता नियमेन संयता नियम्य चैता नयसे निकामया। ततो यमत्वं तव देव विश्रुतं निबोध चेमां गिरमीरितां मया
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा। अनुग्रहश्च दानं च सतां धर्मः सनातनः
एवंप्रायश्च लोकोऽयं मनुष्याः शक्तिपेशलाः। सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते
पिपासितस्येव भवेद्यथा पय- स्तथा त्वया वाक्यमिदं समीरितम्। विना पुनः सत्यवतोऽस्य जीवितं वरं वृणीष्वेह शुभे यदिच्छसि
ममानपत्यः पृथिवीपतिः पिता भवत्पितुः पुत्रशतं तथौरसम्। कुलस्य संतानकरं च यद्भवे- त्तृतीयमेतद्वरयामि ते वरम्