एवमस्त्विति सावित्री ध्यानयोगपरायणा। मनसा ता गिरः सर्वाः प्रत्यगृह्णात्तपस्विनी
तं कालं तं मुहूर्तं च प्रतीक्षन्ती नृपात्मजा। यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता
ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम्। एकान्तमास्थितां वाक्यं प्रीत्या भरतसत्तम
व्रतं यथोपदिष्टं तु तथा तत्पारितं त्वया। आहारकालः संप्राप्तः क्रियतां यदनन्तरम्
अस्तं गते मयाऽऽदित्ये भोक्तव्यं कृतकामया। एष मे हृदि संकल्पः समयश्च कृतो मया
एवं संभाषमाणायाः सावित्र्या भोजनं प्रति। स्कन्धे परशुमादाय सत्यवान्प्रस्थितो वनम्
सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि। सह त्वया गमिष्यामि न हित्वां हातुमुत्सहे
वनं न गतपूर्वं ते दुःख पन्थाश्च भामिनि। व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि
उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः। गमने च कृतोत्साहां प्रतिषेद्धुं न माऽर्हसि
यदि ते गमनोत्साहः करिष्यामि तव प्रयम्। मम त्वामन्त्रय गुरून्न मां दोषः स्पृशेदयम्
साऽभिवाद्याब्रवीच्छ्वश्रूं श्वशुरं च महाव्रता। अयं गच्छति मे भर्ता फलाहारो महावनम्
इच्छेयमभ्यनुज्ञाता आर्यया श्वशुरेण ह। अनेन सह निर्गन्तुं न मेऽद्य विरहः क्षमः
गुर्वग्निहोत्रार्तकृतेप्रस्थितश्च सुतस्तव। न निवार्यो निवार्यः स्यादन्यथा प्रस्थितो वनम्
संवत्सरः किंचिदूनो न निष्क्रान्ताऽहमाश्रमात्। वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे
यदा प्रभृति सावित्री पित्रा दत्ता स्नाषु मम। नानयाऽभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम्
तदेषा लभतां कामं यथाभिलषितं वधूः। अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि
उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी। सहभर्त्रा हसन्तीव हृदयेन विदूयता
सा वनानि विचित्राणि रमणीयानि सर्वशः। मयूरगणजुष्टानि ददर्श विपुलेक्षणा
नदीः पुण्यवहाश्चैव पुष्पितांश्च नगोत्तमान्। सत्यवानाह पश्येति सावित्रीं मधूरं वचः
नीरीक्षमाणा भर्तारं सर्वावस्थमनिन्दिता। मृतमेव हिं मेने काले मुनिवचः स्मरन्
अनुव्रजन्ती भर्तारं जगाम मृदुगामिनी। द्विधेव हृदयं कृत्वा तं च कालमवेक्षती
अथ भार्यासहायः स फलान्यादाय वीर्यवान्। कठिनं पूरयामास ततः काष्ठान्यपाटयत्
तस्य पाटयतः काष्ठं स्वेदो वै समजायत। व्यायामेन च तेनास्य जज्ञे शिरसि वेदना
सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः। व्यायामेन ममानेन जाता शिरसि वेदना
अङ्गानि चैव सावित्रि हृदयं दूयतीव च। अस्वस्थमिव चात्मानं लक्षये मितभाषिणि
शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम्। `भ्रमन्तीव दिशः सर्वाश्चक्रारूढं मनो मम'। तत्स्वप्तुमिच्छे कल्याणि न स्तातुं शक्तिरस्ति मे
सा समासाद्य सावित्री भर्तारमुपगम्य च। उत्सङ्गेऽस्य शिर कृत्वा निषसाद महीतले
ततः सा नारदवचो विमृशन्ती तपस्विनी। तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह
हन्त प्राप्तः स कालोऽयमिति चिन्तापरा सती'। मुहूर्तादेव चापश्य्पुरुषं रक्तवाससम्। वद्धमौलिं वपुष्मन्तमादित्यसमतेजसम्
श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम्। स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च