जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत। वैश्यापुत्रो युयुत्सुश्च एकादश महारथाः
अभिमन्युः सुभद्रायामर्जुनादभ्यजायत। स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः
पाण्डवेभ्यो हि पाञ्चाल्यां द्रौपद्यां पञ्च जज्ञिरे। कुमारा रूपसंपन्नाः सर्वशास्त्रविशारदाः
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात्। अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः
तथैव सहदेवाच्च श्रुतसेनः प्रतापवान्। हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः
शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वभागता। यां यक्षः पुरुषं चक्रे स्थूमः प्रियचिकीर्षया
कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ। राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे
तेषामपरिमेयानां नामधेयानि सर्वशः। न शक्यानि समाख्यातुं वर्षाणामयुतैरपि। एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम्
य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः। सम्यक्ताञ्श्रोतुमिच्छामिराज्ञश्चान्यान्सहस्रशः।। 1
यदर्थमिह संभूता देवकल्पा महारथाः। भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि
रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम्। तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षित्रयां पुरा। जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे
तदा निःक्षत्रिये लोके भार्गवेण कृते सति। ब्राह्मणान्क्षत्रिया राजन्सुतार्थिन्योऽभिचक्रमुः
ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः। ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा
तेभ्यश्च तेभिरे गर्भं क्षत्रियास्ताः सहस्रशः। ततः सुषुविरे राजन्क्षत्रियान्वीर्यवत्तरान्
कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये। एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः
जातं वृद्धं च धर्मेण सुदीर्गेणायुषान्वितम्। चत्वारोऽपि ततो वर्णा बभूवुर्ब्राह्मणोत्तराः
अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा। तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि
ऋतौ दारांश्च गच्छन्ति तत्तथा भरतर्षभ। ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः
ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः। आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः
अथेमां सागरोपान्तां गां गजेन्द्रगताखिलाम्। अध्यतिष्ठत्पुनः क्षत्रं सशैलवनपत्तनाम्
प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम्। ब्राह्मणाद्यास्ततो वर्णा लेभिरे मुदमुत्तमाम्
कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः। धर्मेण दण्डं दण्डेषु प्रणयन्तोऽन्वपालयन्
तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः। स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः
न बाल एव म्रियते तदा कश्चिज्जनाधिप। न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनाम्
एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ। इयं सागरपर्यन्ता ससापूर्यत मेदिनी
ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः। साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा
न च विक्रीणते ब्र्हम ब्राह्मणाश्च तदा नृप। न च शूद्रसमभ्याशे वेदानुच्चारयन्त्युत
कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह। युञ्जते धुरि नो गाश्च कृशाङ्गांश्चाप्यजीवयन्
फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः। न कूटमानैर्वणिजः पण्यं विक्रीणते तदा