त्रयोदश्यां चोपवासं प्रतिपत्सु च पारणम्। आयुष्यं वर्धते भर्तुर्व्रतेनानि भारत
तं श्रुत्वा रकनियमं तस्या भृशं दुःखान्वितो नृपः। उत्थाय वाक्यं सावित्रीमब्रवीत्परिसान्त्वयन्
अतितीव्रोऽयमारम्भस्त्वयाऽऽरब्धो नृपात्मजे। तिसृणां वसतीनां हि स्तानं परमदुश्चरम्
न कार्यस्तात संतापः पारयिष्याम्यहं व्रतम्। व्यसंसायकृतं हीदं व्यवसायश्च कारणम्
व्रतं भिन्धीति वक्तुं त्वां नास्मि शक्तः कथंचन। पारयस्वेति वचनं युक्तमस्मद्विधो वदेत्
एवमुक्त्वा द्युमत्सेनो विरराम महामनाः। तिष्ठन्ती चैव सावित्री काण्ठभूतेव लक्ष्यते
श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ। दुःखान्वितायास्तिष्ठन्त्याः सा रात्रिर्व्यत्यवर्तत
अद्य तद्दिवसं चेति हुत्वा दीप्तं हुताशनम्। युगमात्रोदिते सूर्येकृत्वा पौर्वाङ्णिकीः क्रियाः
व्रतं समाप्यसावित्री स्नात्वा शुद्धा यशस्विनी'। ततः सर्वान्द्विजान्वृद्धाञ्श्वश्रूं श्वशुरमेव च। अभिवाद्यानुपूर्व्येण प्राञ्जलिर्नियता स्थिता
अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताः शुभाः। ऊचुस्तपस्विनः सर्वे तपोवननिवासिनः
एवमस्त्विति सावित्री ध्यानयोगपरायणा। मनसा ता गिरः सर्वाः प्रत्यगृह्णात्तपस्विनी
तं कालं तं मुहूर्तं च प्रतीक्षन्ती नृपात्मजा। यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता
ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम्। एकान्तमास्थितां वाक्यं प्रीत्या भरतसत्तम
व्रतं यथोपदिष्टं तु तथा तत्पारितं त्वया। आहारकालः संप्राप्तः क्रियतां यदनन्तरम्
अस्तं गते मयाऽऽदित्ये भोक्तव्यं कृतकामया। एष मे हृदि संकल्पः समयश्च कृतो मया
एवं संभाषमाणायाः सावित्र्या भोजनं प्रति। स्कन्धे परशुमादाय सत्यवान्प्रस्थितो वनम्
सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि। सह त्वया गमिष्यामि न हित्वां हातुमुत्सहे
वनं न गतपूर्वं ते दुःख पन्थाश्च भामिनि। व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि
उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः। गमने च कृतोत्साहां प्रतिषेद्धुं न माऽर्हसि
यदि ते गमनोत्साहः करिष्यामि तव प्रयम्। मम त्वामन्त्रय गुरून्न मां दोषः स्पृशेदयम्
साऽभिवाद्याब्रवीच्छ्वश्रूं श्वशुरं च महाव्रता। अयं गच्छति मे भर्ता फलाहारो महावनम्
इच्छेयमभ्यनुज्ञाता आर्यया श्वशुरेण ह। अनेन सह निर्गन्तुं न मेऽद्य विरहः क्षमः
गुर्वग्निहोत्रार्तकृतेप्रस्थितश्च सुतस्तव। न निवार्यो निवार्यः स्यादन्यथा प्रस्थितो वनम्
संवत्सरः किंचिदूनो न निष्क्रान्ताऽहमाश्रमात्। वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे
यदा प्रभृति सावित्री पित्रा दत्ता स्नाषु मम। नानयाऽभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम्
तदेषा लभतां कामं यथाभिलषितं वधूः। अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि
उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी। सहभर्त्रा हसन्तीव हृदयेन विदूयता
सा वनानि विचित्राणि रमणीयानि सर्वशः। मयूरगणजुष्टानि ददर्श विपुलेक्षणा
नदीः पुण्यवहाश्चैव पुष्पितांश्च नगोत्तमान्। सत्यवानाह पश्येति सावित्रीं मधूरं वचः
नीरीक्षमाणा भर्तारं सर्वावस्थमनिन्दिता। मृतमेव हिं मेने काले मुनिवचः स्मरन्