नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वै गुणाः। प्रदानमेव तस्मान्मे रोचते दुहितुस्तव
अविचाल्यमेतदुक्तं तथ्यं च भवता वचः। करिष्याम्येतदेवं च गुरुर्हि भगवान्मम
अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव। साधयिष्याम्यहं तावत्सर्वेषां भद्रमस्तु वः
एवमुक्त्वा स्वमुत्पत्य नारदस्त्रिदिवं गतः। राजाऽपि दुहितुः सज्जं वैवाहिकमकारयत्
अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन्। समानित्ये च तत्सर्वंभाण्डं वैवाहिकं नृपः
ततो वृद्धान्द्विजान्सर्वानृत्विक्सभ्यपुरोहितान्। समाहूय दिने पुण्ये प्रययौ सह कन्यया
मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः। पद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत्
तत्रापश्यन्महाभागं सालवृक्षमुपाश्रितम्। कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा
स राजा तस्य राजर्षेः कृत्वापूजां यथाऽर्हतः। वाचा सुनियतो भूत्वा चकारात्मनिवेदनम्
तस्यार्ध्यमासं चैव गां चावेद्यस धर्मवित्। किमागमनमित्येवं राजा राजानमब्रवीत्
तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम्। सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत्
सावित्री नाम राजर्षे कन्येयं मम शोभना। तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे
च्युताः स्म राज्याद्वनवासमाश्रिता- श्चराम धर्मं नियतास्तपस्विनः। कथं त्वनर्हा वनवासमाश्रमे सहिष्यति क्लेशमिमं सुता तव
सुखं च दुःखं च भवाभवात्मकं यदा विजानाति सुताऽहमेव च। न मद्विधे युज्यतेवाक्यमीदृशं विनिश्चयेनाभिगतोस्मि ते नृप
आशां नार्हसि मे हन्तुं सौहृदात्प्रणतस्य च। अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न माऽर्हसि
अनुरूपो हि युक्तश्च त्वं ममाहं तवापि च। स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतस्ततः
पूर्वमेवाभिलवितः संबन्धो मे त्वया सह। भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम्
अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः। स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः
ततः सर्वान्समानाय्य द्विजानाश्रमवासिनः। यथाविधि समुद्वाहं कारयामासतुर्नृपौ
दत्त्वा सोऽश्वपतिः कन्यां यथार्हं सपरिच्छदम्। ययौ स्वमेव भवनं युक्तः परमया मुदा
सत्यवानपि तां भार्यां लब्ध्वा सर्वगुणान्विताम्। मुमुदे सा रच रतं लब्ध्वा भर्तारं मनसेप्सितम्
गते पितरि सर्वाणि संन्यस्याभरणानि सा। जगृहेवल्कलान्येव वस्त्रं काषायमेव च
परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च। सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमादधे
श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिः। श्वशुरं देवसत्कारैर्वाचः संयमनेन च
तथैव प्रियवादेन नैषुणेन शमेन च। रहश्चैवोपचारेण भर्तारं पर्यतोषयत्
एवं तत्राश्रमे तेषां तदा निवसतां सताम्। कालस्तपस्यतां कश्चिदपाक्रामत भारत
सावित्र्याग्लायमानायास्तिष्ठन्त्यास्तु दिवानिशम। नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते
ततः काले बहुतिथे व्यतिक्रान्ते कदाचन। प्राप्तः स कालो मर्व्यं यत्रसत्यवता नृप
गणयन्त्याश्च सावित्र्या दिवसदिवसे गते। यद्वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः
चतुर्थेऽहनि मर्तव्यमिति संचिन्त्य भामिनी। व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताऽभवत्