तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने। सत्यवाननुरूपो मे भर्तेति मनसा वृतः
अहो वत महत्पापं सावित्र्या नृपते कृतम्। अजानन्त्या यदनया गुणवान्सत्यवान्वृतः
सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते। तथाऽस् ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति
बालस्याश्वाः प्रियाश्चास्य करोत्यश्वांश्च मृन्मयान्। चित्रेऽपि विलिखत्यश्वांश्चित्राश्व इति चोच्यते
अपीदानीं स तेजस्वी बुद्धिमान्वा नृपात्मजः। क्षमावानपि वा शृरः सत्यवान्पितृवत्सलः
विवस्वानिव तेजस्वी वृहस्पतिसमो मतौ। महेन्द्र इवन वीरश्च वसुधेव क्षमान्वितः
अपि राजात्मजो दाता ब्रह्मण्यश्चापि सत्यवान्। रूपवानप्युदारो वाऽप्यथवा प्रियदर्शनः
सांकृते रन्तिदेवस् स्वशक्त्या दानतः समः। ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा
ययातिरिव चोदारः सोमवत्प्रियदर्शनः। रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली
स वदान्यः स तेजस्वीधीमांश्चैव क्षमान्वितः'। स दान्तः स मृदुः शूरः स सत्यः संयतेन्द्रियः। सन्मैत्रः सोनसूयश्च स ह्रीमान्द्युतिमांश्च सः
नित्यशश्चार्जवं तस्मिन्धृतिस्तत्रैव च ध्रुवा। संक्षेपतस्तपोवृद्धैः शीलवृद्धैश्च कथ्यते
गुणैरुपेतं सर्वैस्तं भगवन्प्रब्रवीषि मे। दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन
एक एवास्य दोषो हि गुणानाक्रम्य तिष्ठति। स च दोषः प्रयत्नेन न शक्यमतिवर्तितुम्
एको दोषोऽस्ति नान्योऽस्य सोद्यप्रभृति सत्यवान्। संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति
एहि सावित्रि गच्छस्व अन्यं वरय शोभने। तस्य दोषो महानेको गुणानाक्रम्य च स्थितः
यथा मे भगवानाह नारदो देवसत्कृतः। संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति
सकृदंशो निपतति सकृत्कन्या प्रदीयते। स कृदाह ददानीति त्रीण्येतानि सकृत्सकृते
दीर्घायुरथवाऽल्पायुः सगुणो निर्गुणोऽपि वा। सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम्
मनसा निश्चयं कृत्वाततो वाचाऽभिधीयते। क्रियते कर्मणा पश्चात्प्रमाणं मे मनस्ततः
स्थिरा बुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव। नैषा वारयितुं शक्या धर्मादस्मात्कथंचन
नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वै गुणाः। प्रदानमेव तस्मान्मे रोचते दुहितुस्तव
अविचाल्यमेतदुक्तं तथ्यं च भवता वचः। करिष्याम्येतदेवं च गुरुर्हि भगवान्मम
अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव। साधयिष्याम्यहं तावत्सर्वेषां भद्रमस्तु वः
एवमुक्त्वा स्वमुत्पत्य नारदस्त्रिदिवं गतः। राजाऽपि दुहितुः सज्जं वैवाहिकमकारयत्
अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन्। समानित्ये च तत्सर्वंभाण्डं वैवाहिकं नृपः
ततो वृद्धान्द्विजान्सर्वानृत्विक्सभ्यपुरोहितान्। समाहूय दिने पुण्ये प्रययौ सह कन्यया
मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः। पद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत्
तत्रापश्यन्महाभागं सालवृक्षमुपाश्रितम्। कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा
स राजा तस्य राजर्षेः कृत्वापूजां यथाऽर्हतः। वाचा सुनियतो भूत्वा चकारात्मनिवेदनम्
तस्यार्ध्यमासं चैव गां चावेद्यस धर्मवित्। किमागमनमित्येवं राजा राजानमब्रवीत्