अन्तर्हितायां सावित्र्यां जगाम स्वपुरं नृपः। स्वराज्ये चावसद्बीरः प्रजा धर्मेण पालयन्
कस्मिंश्चित्तु गते काले स राजा नियतब्रतः। ज्येष्ठायां धर्मचारिण्यां महिष्यां कगर्भमादधे
राजपुत्र्यास्तु गर्भः स मानव्या भरतर्षभ। व्यर्धतं तदा शुक्ले तारापतिरिवाम्बरे
प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम्। क्रियाश्च तस्या मुदितश्चक्रे च नृपसत्तमः
सावित्र्या प्रीतया दत्ता साव्त्र्या द्दुतया ह्यपि। सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता
सा विग्रहवतीव श्रीव्यवर्धत नृपात्मजा। कालेन चापि सा कन्या यौवनस्ता बभूव ह
तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव। प्राप्तेयं रदेवकन्येति दृष्ट्वा संमेनिरे जनाः
तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा। न कश्चिद्वरयामास तेजसा प्रतिवारितः
अथोपोष्य शिरःस्नाता देवतामभिगम्य सा। हुत्वाग्निं विधिवद्विप्रान्वाचयामास पर्वणि
साऽभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च। कृताञ्जलिर्वरारोहा नृपतेः पार्श्वमास्थिता
यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम्। अयाच्यमानां च वरैर्नृपतिर्दुःखितोऽभवत्
पुत्रि प्रदानकालस्ते न च कश्चिद्वृणोति माम्। स्वयमन्विच्छ भर्तारं गुणैः सदृशमात्मनः
प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम। विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम्
श्रुतं हि धर्मशास्त्रेषु पठ्यमानं द्विजातिभिः। तथा त्वमपिकल्याणि गदतो मे वचः शृणु
अप्रदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः। मृते पितरि पुत्रश्च वाच्यो मातुररक्षिता
इदं मे वचनं क्षुत्वा भर्तुरन्वेषणे न्वर। देवतानां यथा याच्यो न भवेयं तथा कुरु
एवमुक्त्वा दुहितरं तथा वृद्धांश्च मन्त्रिणः। व्यादिदेशानुयात्रं च गम्यतां चेत्यचोदयत्
साऽभिवाद्य पितुः पादौ व्रीडितेव मनस्विनी। पितुर्वचनमाज्ञाय निर्जगामाविचारितम्
सा हैमं रथमास्थाय स्थविरैः सचिवैर्वृता। तपोवनानिरम्याणि राजर्षीणां जगाम ह
मान्यानां तत्र वृद्धानां कृत्वा पादाभिवादनम्। वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत
एवं तीर्थेषु सर्वेषु धनोत्सर्गं नृपात्मजा। कुर्वी द्विजमुख्यानां तंतं देशं जगाम ह
अथ मद्राधिपो राजा नारदेन समागतः। उपविष्टः सभामध्ये कथायोगेन भारत
ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा। आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः
नारदेन सहासीनं सा दृष्ट्वा पितरं शुभा। उभयोरेव शिरसा चक्रे पादाभिवादनम्
क्व गताऽभूत्सुतेयं ते कुतश्चैवागता नृप। किमर्थं युवतीं भद्र न चैनां संप्रयच्छसि
कार्येण खल्वनेनैव प्रेषिताद्यैव चागता। एतस्याः शृणु देवर्षे भर्तारं योऽनया वृतः
सा ब्रूहि विस्तरेणेति पित्रा संयोदिता शुभा। तदैव तस्य वचनं प्रतिगृह्येदमब्रवीत्
आसीत्साल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः। द्युमत्सेन इति ख्यातः पश्चाच्चान्धो बभूव ह
विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः। सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा
स बालवत्सया सार्धं भार्यया प्रस्थितो वनम्। महारण्यं गतश्चापि पस्तेषे महाव्रतः