सहायवति सर्वार्थाः सतिष्ठन्तीह सर्वशः। किंनु तस्याजितं सङ्ख्ये यस् भ्राता धनंजयः
अयं च बलिनांश्रेष्ठो भीमो भीमपराक्रमाः। युवानौ च महेष्वासौ वीरौ माद्रवतीसुतौ
एभिः सहायैः कस्मात्त्वं विषीदसि परंतप। य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम्
त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः। विजेष्यसि रणे सर्वानमित्रान्भरतर्षभ
इतश्च त्वमिमां पश्यसैन्धवेन दुरात्मना। बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः
आनीतां द्रौपदीं कृष्णां कृत्वा कर्म सुदुष्करम्। जयद्रथं च राजानं विजितं वशमागतम्
असहायेन रामेण वैदेही पुनराहृता। हत्वासङ्ख्ये दशग्रीवं राक्षसं भीमविक्रमम्
यस् शाखामृगामित्राण्यृक्षाः कालमुखास्तथा। जात्यन्तरगता राजन्नेतद्बुद्ध्याऽनुचिन्तय
तस्मात्सर्वं कुरुश्रेष्ठ मा शुचो भरतर्षभ। त्वद्विधा हि महात्मानो न शोचन्ति परंतप
एवमाश्वासितो राजामार्कण्डेयेन धीमता। त्यक्त्वा दुःखमदीनात्मा पुनरप्येनमब्रवीत्
नात्मानमनुशोचामि नेमान्भ्रातॄन्महामुने। हरणं चापि राज्यस् यथेमां द्रुपदात्मजाम्
द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम्। जयद्रथेन चपुनर्वनाच्चापि हृता बलात्
अस्ति सीमन्तिनी काचिद्दृष्टपूर्वाऽपिवा श्रुता। पतिव्रता महाभागा यथेयं द्रुपदात्मजा
शृणु राजन्कुलस्त्रीणां महाभाग्यं युधिष्ठिर। सर्वमेतद्यथाप्राप्तं सावित्र्या राजकन्यया
आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः। ब्रह्मण्यश्चमहात्मा च सत्यसन्धो जितेन्द्रियः
यज्वा दानपतिर्दक्षः पौरजानपदप्रियः। पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः
क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः। अतिक्रान्तेन वयसा संतापमुपजग्मिवान्
अपत्योत्पादनार्थं च तीव्रं नियममास्थितः। काले परिमिताहारो ब्रहमचारी जितेन्द्रियः
हुत्वा शतसहस्रं स सावित्र्या राजसत्तम। षष्ठेषष्ठे तदाकाले बभूव मितमोजनः
एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु। पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात्
रूपिणी तु तदा राजन्दर्शयामास तं नृपम्। अग्निहोत्रात्समुत्थाय हर्षेण महताऽन्विता
उवाच चैनं वरदा वचनं पार्थिवं तदा। सा तमश्वपतिं राजन्सावित्री नियमे स्थितम्
ब्रह्मचर्येण शुद्धेन दमेन नियमेन रच। सर्वात्मना च भक्त्या च तुष्टाऽस्मि तव पार्थिवाः
वरं वृणीष्वाश्वपते मद्रराज यदीप्सितम्। न प्रामादश्च धर्मेषु कर्तव्यस्ते कथंचन
अपत्यार्थः समारम्भः कृतो धर्मेप्सया मया। पुत्रा मे बहवो देवि भवेयुः कुलभावनाः
तुष्टाऽसि यदि मे देवि वरमेतं वृणोम्यहम्। संतां परमो धर्म इत्याहुर्मां द्विजातयः
पूर्वमेव मया राजन्नभिप्रायमिमं तव। ज्ञात्वा पुत्रार्थमुक्तो वै भगवांस्ते पितामहः
प्रसादाच्चैव तस्मात्ते स्वयं विहितवत्यहम्। कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति
उत्तरं च न ते किंचिद्व्याहर्तव्यं कथंचन। पितामहनियोगेन तुष्टा ह्येतद्ब्रवीमि ते
स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः। प्रसादयामास पुनः क्षिप्रमेतद्भविष्यति