तस्मै तद्भरतो राज्यमागतायातिसत्कृतम्। न्यासं निर्यातयामास युक्तः परमया मुदा
ततस्तं वैष्णवे शूरं नक्षत्रेऽभिजितेऽहनि। वसिष्ठो वामदेवश्च सहितावभ्यषिञ्चताम्
सोभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम्। विभीषणं च पौलस्त्यमन्वजानाद्गृहान्प्रति
अभ्यर्च्य विविधै रत्नैः प्रीतियुक्तौ मुदा युतौ। समाधायेतिकर्तव्यं दुःखेन विससर्ज ह
पुष्पकं च विमानं तत्पूजयित्वा स राघवः। प्रादाद्वैश्रवणायैव प्रीत्या स रघुनन्दनः
ततो देवर्षिसहितः सरितं गोमतीमनु। शताश्वमेधानाजह्रे जारूथ्यान्स निरर्गलान्
एवमेतन्महाबाहो रामेणामिततेजसा। प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा
मा शुचः परुषव्याघ्र क्षत्रियोसि परंतप। बाहुवीर्याश्रयेमार्गे वर्तसे दीप्तनिर्णये
न हि ते वृजिनं किंचिद्दृश्यते परमण्वपि। अस्मिन्मार्गे निपीदेयुः सेन्द्रा अपि सुरासुराः
संहत्य निहतोवृत्रो मरुद्भिर्वज्रपाणिना। नमुचिश्चैवदुर्धर्षो दीर्गजिह्वा चराक्षसी
सहायवति सर्वार्थाः सतिष्ठन्तीह सर्वशः। किंनु तस्याजितं सङ्ख्ये यस् भ्राता धनंजयः
अयं च बलिनांश्रेष्ठो भीमो भीमपराक्रमाः। युवानौ च महेष्वासौ वीरौ माद्रवतीसुतौ
एभिः सहायैः कस्मात्त्वं विषीदसि परंतप। य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम्
त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः। विजेष्यसि रणे सर्वानमित्रान्भरतर्षभ
इतश्च त्वमिमां पश्यसैन्धवेन दुरात्मना। बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः
आनीतां द्रौपदीं कृष्णां कृत्वा कर्म सुदुष्करम्। जयद्रथं च राजानं विजितं वशमागतम्
असहायेन रामेण वैदेही पुनराहृता। हत्वासङ्ख्ये दशग्रीवं राक्षसं भीमविक्रमम्
यस् शाखामृगामित्राण्यृक्षाः कालमुखास्तथा। जात्यन्तरगता राजन्नेतद्बुद्ध्याऽनुचिन्तय
तस्मात्सर्वं कुरुश्रेष्ठ मा शुचो भरतर्षभ। त्वद्विधा हि महात्मानो न शोचन्ति परंतप
एवमाश्वासितो राजामार्कण्डेयेन धीमता। त्यक्त्वा दुःखमदीनात्मा पुनरप्येनमब्रवीत्
नात्मानमनुशोचामि नेमान्भ्रातॄन्महामुने। हरणं चापि राज्यस् यथेमां द्रुपदात्मजाम्
द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम्। जयद्रथेन चपुनर्वनाच्चापि हृता बलात्
अस्ति सीमन्तिनी काचिद्दृष्टपूर्वाऽपिवा श्रुता। पतिव्रता महाभागा यथेयं द्रुपदात्मजा
शृणु राजन्कुलस्त्रीणां महाभाग्यं युधिष्ठिर। सर्वमेतद्यथाप्राप्तं सावित्र्या राजकन्यया
आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः। ब्रह्मण्यश्चमहात्मा च सत्यसन्धो जितेन्द्रियः
यज्वा दानपतिर्दक्षः पौरजानपदप्रियः। पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः
क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः। अतिक्रान्तेन वयसा संतापमुपजग्मिवान्
अपत्योत्पादनार्थं च तीव्रं नियममास्थितः। काले परिमिताहारो ब्रहमचारी जितेन्द्रियः
हुत्वा शतसहस्रं स सावित्र्या राजसत्तम। षष्ठेषष्ठे तदाकाले बभूव मितमोजनः
एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु। पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात्