नात्रशङ्का त्वया कार्या प्रतीच्छेमां महामते। कृतं त्वया महत्कार्यं देवानाममितप्रभ
प्रीतोस्मि वत्स भद्रं ते पिता दशरथोस्मि ते। अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम
अभिवादयेत्वां राजेन्द्र यदि त्वं जनको मम। गमिष्यामि पुरीं रम्यामयोध्यां शासनात्तव
तमुवाच पिता भूयः प्रहृष्टो भरतर्षभ। गच्छायोध्यां प्रशाधि त्वंराम रक्तान्तलोचन। संपूर्णानीहवर्षाणि चतुर्दश महाद्युते
ततो देवान्नमस्कृत्य मुहृद्भिरभिनन्दितः। महेन्द्रइव पौलोम्या भार्यया स समेयिवान्
ततो वरं ददौ तस्मै ह्यविन्ध्याय परंतपः। त्रिजटां चार्थमानाभ्यां योजयामास राक्षसीम्
तमुवाच ततो ब्रह्मा देवैः शक्रषुरोगमैः। कौसल्यामातरिष्टांस्ते वरानद्य ददानि कान्
वव्रेरामः स्थितिं धर्मे शत्रुभिश्चापराजयम्। राक्षसैर्निहतानां च वानराणां समुद्भवम्
ततस्ते ब्रह्मणा प्रोक्ते तथेतिवचने तदा। समुत्तस्थुर्महाराज वानरा लब्धचेतसः
सीता चापि महाभागा वरं हनुमते ददौ। रामकीर्त्या समं पुत्र जीवितं ते भविष्यति
दिव्यास्त्वामुपभोगाश्च मत्प्रसादकृताः सदा। उपस्थास्यन्ति हनुमन्निति स्म हरिलोचन
ततस्ते प्रेक्षमाणानां तेपामक्लिष्टकर्मणाम्। अन्तर्धानं ययुर्देवाः सर्वे शक्रपुरोगमाः
दृष्ट्वा रामं तु जानक्या संगतं शक्रसारथिः। उवाच परमप्रीतसुहृन्मध्य इदं वचः
देवगन्धर्वयक्षाणां मानुषासुरभोगिनाम्। अपनीतं त्वया दुःखमिदं सत्यपराक्रम
सदेवासुरगनधर्वा यक्षराक्षसपन्नगाः। कथयिष्यन्ति लोकास्त्वां यावद्भूमिर्धरिष्यति
इत्येवमुक्त्वाऽनुज्ञाप्यरामं शस्त्रभृतांवरम्। संपूज्यापाक्रमत्तेन रथेनादित्यवर्चसा
ततःसीतां पुरस्कृत्य रामः सौमित्रिणा सह। सुग्रीवप्रमुखैश्चैव सहितः सर्ववानरैः
विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः। संततार पुनस्तेन सेतुना मकरालयम्
पुष्पकेण विसानन खेचरेण विराजता। कामगेन यथामुख्यैरमात्यैः संवृतो वसी
ततस्तीरे समुद्रस्यं यत्रशिश्य स पार्थिवः। तत्रैवोवास धर्मात्मा सहितः सर्ववानरैः
अथैनान्राघवः काले समानीयाभिपूज्य च। विसर्जयामास तदा रत्नैः संतोष्य सर्वशः
गतेषु वानरेन्द्रेषु गोपुच्छर्क्षेषु तेषु च। सुग्रीवसहितो रामः किष्किन्दां पुनरागमत्
विभीषणेनानुगतः सुग्रीवसहितस्तदा। पुष्पकेण विमानेन वैदेह्या दर्शयन्वनम्
किष्किन्धां तु समासाद्यरामः प्रहरतांवरः। अङ्गदं कृतकर्माणं यौवराज्येऽभ्यषेचयत्
ततस्तैरेव सहितो रामः सौमित्रिणा सह। यथागतेन मार्गेण प्रययौ स्वपुरं प्रति
अयोध्यां स समासाद्यपुरीं राष्ट्रपतिस्ततः। भरताय हनूमन्तं दूतं प्रास्थापयद्द्रुतम्
लक्षयित्वेङ्गितं सर्वंप्रियं तस्मै निवेद्य वै। वायुपुत्रे पुनः प्राप्ते नन्दिग्राममुपाविशत्
सतत्रमलदिग्धाङ्गं भरतं चीरवाससम्। `नन्दिग्रामगतंरामः सशत्रुघ्नं सराघवः'। अग्रतःपादुके कृत्वा ददर्शासीनमासने
समेत्यभरतेनाथ शत्रुघ्नेन च वीर्यवान्। राघवः सहसौमित्रिर्मुमुदे भरतर्षभ
ततो भरतशत्रुघ्नौ समेतौ गुरुणा तदा। वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः