ततः ससर्ज तं रामः शरमप्रतिमौजसम्। रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम्
मुक्तमात्रेण रामेण दूराकृष्टेन भारत। स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः। प्रजज्वाल महाज्वालेनाग्निनाभिपरिप्लुतः
ततः प्रहृष्टास्त्रिदशाः सहगन्धर्वचारणाः। निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा
तत्यजुस्तं महाभागं पञ्चभूतानि रावणम्। भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा
शरीरधातवो ह्यस् मासं रुधिरमेव च। नेशुर्ब्रह्मास्त्रनिर्दग्दा न च भस्माप्यदृश्यत
स हत्वा रावयणं क्षुद्रं राक्षसेनद्रं सुरद्विषम्। बभूव हृष्टः ससुहृद्रामः सौमित्रिणा सह
ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः। आशीर्भिर्जययुक्ताभिरानर्चुस्तं महाभुजम्
रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः। गन्धर्वाः पुष्पवर्षैश्च वाग्भिश्च त्रिदशालयाः
पूजयित्वा रणे रामं प्रतिजग्मुर्यथागतम्। तन्महोत्सवसंकाशमासीदाकाशमच्युत
ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः। विभीषणाय प्रददौ प्रभुः परपुरंजयः
ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम्। अविन्ध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ
उवाच च महात्मानं काकुत्स्थं दैन्यमास्थितम्। प्रतीच्छ देवीं सद्वृत्तां महात्मञ्जानकीमिति
एतच्छ्रुत्वा वचस्तस्मादवतीर्य रथोत्तमात्। बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः
तां दृष्ट्वा चारुसर्वाङ्गीं यानस्थां शोककर्शिताम्। मलोपचितसर्वाङ्गीं जटिलां कृष्णवाससम्
उवाच रामो वैदेहीं परामर्शविशङ्कितः। `लक्षयित्वेङ्गितं सर्वं प्रियं तस्यै निवेद्य सः
गच्छ वैदेहि मुक्ता त्वं यत्कार्यं तनमया कृतम्। मामासाद्यपतिं भद्रे न त्वं राक्षसवेश्मनि। जरां व्रजेथा इतिमे निहतोसौ निशाचरः
कथं ह्यस्मद्विधो जातु जानन्धर्मविनिश्चयम्। परहस्तगतां नारीं मुहूर्तमपि धारयेत्
सुवृत्तामसुवृत्तां वाऽप्यहं त्वामद्य मैथिलि। नोत्सहे परिभोगाय श्वावलीढं हविर्यथा
ततः सा सहसा बाला तच्छ्रुत्वा दारुणं वचः। पपात देवी व्यथिता निकृत्ता कदली यथा
योप्यस्या हर्षसंभूतो मुखरागः पुराऽभवत्। क्षणेन सपुनर्नष्टो निःश्वासादिव दर्पणे
ततस्ते हरयः सर्वे तच्छ्रुत्वा रामभाषितम्। गतासुकल्पा निश्चेष्टा बभूवुः सहलक्ष्मणाः
ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः। पद्मयोनिर्जगत्स्रष्टा दर्शयामास राघवम्
शक्रश्चाग्निश्च वायुश्चयमो वरुण एव च। यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः
राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान्। विमानेन महार्हेण हंसयुक्तेन भास्वता
ततोऽन्तरिक्षं तत्सर्वंदेवगन्धर्वसंकुलम्। शुशुभे तारकाचित्रं शरदीव नभस्तलम्
तत उत्थाय वैदेही तेषां मध्ययशस्विनी। उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम्
राजपुत्र न ते कोपं करोमि विदिताहि मे। गतिः स्त्रीणां नराणां च शृणु चदं वचो मम
अन्तश्चरतिभूतानां मातरिश्वा सदागतिः। स मे विमुञ्चतु प्राणान्यदि पापं चराम्यहम्
अग्निरापस्तथाऽऽकाशं पृथिवी वायुरेव च। विमुञ्चन्तु मम प्राणान्यदि पापं चराम्यहम्
यथाऽहं त्वदृतेवीर नान्यंस्वप्नेऽप्यचिन्तयम्। तथा मे देव निर्दिष्टस्त्वमेव हि पतिर्भव