ततस्ते राममर्च्छन्तो लक्ष्मणं च क्षपाचराः। अभिपेतुस्तदा रामं प्रगृहीतशरासनाः
तां दृष्ट्वाराक्षसेन्द्रस् मायामिक्ष्वाकुनन्दनः। उवाच रामः सौमित्रिमसंभ्रान्तो बृहद्वचः
जहीमान्राक्षसान्पापानात्मनः प्रतिरूपकान्। इत्युक्त्वाऽभ्यहनद्रामो लक्ष्मणश्चात्मरूपकान्
ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा। उपतस्थे रणे रामं मातलिः शक्रसारथिः
अयं हर्यश्वयुग्जैत्रो मघोनः स्यन्दनोत्तमः। `त्वदर्थमिह संप्राप्तः संदेशाद्वै शतक्रतोः
अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान्। शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान्
तदनन नरव्याघ्र मया यत्तेन संयुगे। स्यन्दनेन जहिक्षिप्रं रावणं मा चिरं कृथाः
इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः। मायैषाराक्षसस्येति तमुवाच विबीषणः
नेयं माया नरव्याघ्ररावणस् दुरात्मनः। तदातिष्ठ रथंशीघ्रमिमसैन्द्रं महाद्युते
ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम्। रथेनाभिपपाताथ दशग्रीवं रुषाऽन्वितः
हाहाकुतानि भूतानि रावणे समभिद्रुते। सिंहनादाः सपटहादिति दिव्यास्तथाऽनदन्
[दशकन्धरराजसून्वोस्तथा युद्धमभून्महत्। अलब्धोपममन्यत्रतयोरेव तथाऽभवत् ।।]
सरामाय महाघोरं विससर्ज निशाचरः। शूलमिन्द्राशनिप्रख्यं ब्रह्मदण्डभिवोद्यतम्
तच्छूलं सत्वरं रामश्चच्छेद निशितैः शरैः। तद्दृष्ट्वा दुष्करं कर्म रावणं भयमाविशत्
ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताञ्छरान्। सहस्रायुतशो रामे शस्त्राणि विविधानि च
ततो भुशुण्डीः शूलानि मुसलानि परश्वथान्। शक्तीश्च विविधाकाराः शतघ्नीश्च शितान्क्षुरान्
तां मायांविविधां दृष्ट्वा दशग्रीवस्य रक्षसः। भयात्प्रदुद्रुवुः सर्वे वानराः सर्वतोदिशम्
ततः सुपत्रं सुमुखंहेमपुङ्गं शरोत्तमम्। तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह
तं प्रेक्ष्यबाणं रामेण ब्रह्मास्त्रेणानुमन्त्रितम्। जहृषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः
अल्पावशेषमायुश्च ततोऽमन्यन्त रक्षसः। ब्रह्मास्त्रोदीरणाच्छत्रोर्देवदानवकिंनराः
ततः ससर्ज तं रामः शरमप्रतिमौजसम्। रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम्
मुक्तमात्रेण रामेण दूराकृष्टेन भारत। स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः। प्रजज्वाल महाज्वालेनाग्निनाभिपरिप्लुतः
ततः प्रहृष्टास्त्रिदशाः सहगन्धर्वचारणाः। निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा
तत्यजुस्तं महाभागं पञ्चभूतानि रावणम्। भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा
शरीरधातवो ह्यस् मासं रुधिरमेव च। नेशुर्ब्रह्मास्त्रनिर्दग्दा न च भस्माप्यदृश्यत
स हत्वा रावयणं क्षुद्रं राक्षसेनद्रं सुरद्विषम्। बभूव हृष्टः ससुहृद्रामः सौमित्रिणा सह
ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः। आशीर्भिर्जययुक्ताभिरानर्चुस्तं महाभुजम्
रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः। गन्धर्वाः पुष्पवर्षैश्च वाग्भिश्च त्रिदशालयाः
पूजयित्वा रणे रामं प्रतिजग्मुर्यथागतम्। तन्महोत्सवसंकाशमासीदाकाशमच्युत
ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः। विभीषणाय प्रददौ प्रभुः परपुरंजयः