सुग्रीवजाम्बवन्तौ चहनुमानङ्गदस्तथा। मैन्दद्विविदनीलाश्च प्रायः प्लवगसत्तमाः
तथासमभवच्चापि यदुवाच विभीषणः। क्षणेनातीन्द्रियाण्येषां चक्षुंष्यासन्युधिष्ठिर
इन्द्रजित्कृतकर्मा तु पित्रे कर्म तदाऽऽत्मनः। निवेद्य पुनरागच्छत्त्वरयाऽऽजिशिरःप्रति
तमागतं तु संक्रुद्धं पुनरेव युयुत्सया। अभिदुद्राव सौमित्रिर्विभीषणमते स्थितः
अकृताह्निकमेवैनं जिघांसुर्जितकाशिनम्। शरैर्जघान संक्रुद्धः कृतसंज्ञोऽथ लक्ष्मणः
तयोः समभवद्युद्धं तदाऽन्योन्यं जीगीषतोः। अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव
अविध्यदिन्द्रजित्तीक्ष्णैः सौमित्रिं मर्मभेदिभिः। सौमित्रिश्चानलस्पर्शैरविध्यद्रावणिं शरैः
सौमित्रिशरसंस्पर्शाद्रावणिः क्रोधमूर्च्छितः। असृजल्लक्ष्मणायाष्टौ शरानाशीविषोपमान्
तस्येषून्पावकस्पर्शैः सौमित्रिः पत्रिभिस्त्रिभिः। `वारयामास नाराचैः सौमित्रिर्मित्रनन्दनः
असृजल्लक्ष्मणश्चाष्टौ राक्षसाय शरान्पुनः'। तथा तं न्यहनद्वीरस्तन्मे निगदतः शृणु
एकेनास्य धनुष्मन्तं बाहुं देहादपातयत्। द्वितीयेन तु बाणेन भुजमन्यमपातयत्
तृतीयेन तु बाणेन शितधारेण भास्वता। जहार सुनसं चापि शिरो ज्वलितकुण्डलम्
विनिकृत्तभुजस्कन्धः कबन्धाकृतिदर्शनः। `पपात वसुधायां तु छिन्नमूल इवद्रुमः
तं हत्वासूतमप्यस्त्रैर्जघान बलिनंवरः। लङ्कां प्रवेशयामासुस्तं रथं वाजिनस्तदा
ददर्श रावणस्तं च रथं पुत्रविनाकृतम्। स पुत्रं निहतं श्रुत्वा त्रासात्संभ्रान्तमानसः
रावणः शोकमोहार्तो वैदेहीं हन्तुमुद्यतः ।। ङ्गमादाय दुष्टात्मा जवेनाभिपपात ह
तं दृष्ट्वातस्य दुर्बुद्देरविन्ध्यः पापनिश्चयम्। शमयामास संक्रुद्धं श्रूयतां येन हेतुना
महाराज्येस्थितो दीप्ते न स्त्रियं हन्तुमर्हसि। हतैवैषा यदा स्त्री च कबन्धनस्था च ते वशे
न चैषा दहभेदेन हतास्यादिति मे मतिः। जहि भर्तारमेवास्या हते तस्मिन्हता भवेत्
न हि ते विक्रमे तुल्यः साक्षादपि शतक्रतुः। असकृद्धि त्वया सन्द्रास्त्रासितास्त्रिदसा युधि
एवं बहुविधैर्वाक्यैरविन्ध्यो रावणं तदा। क्रुद्धं संशमयामास जगृहे च स तद्वचः
निर्याणे स मतिं कृत्वा नियन्तारं क्षपाचरः। आज्ञापयामास तदारथो मे कल्प्यतामिति
ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते। निर्ययौ रथमास्थाय हेमरत्नविभूषितम्
संवृतोराक्षसैर्घेरैर्विविधायुधपाणिभिः। अभिदुद्राव रामं स पोथयन्हरियूथपान्
तमाद्रवन्तं संक्रुद्ध मैन्दनीलनलाङ्गदाः। हनुमाञ्जाम्बवांश्चैव ससैन्याः पर्यवारयन्
ते दशग्रीवसैन्यं तदृक्षवानरपुङ्गवाः। द्रुमैर्विध्वंसयांचक्रुर्दशग्रीवस्य पश्यतः
ततः स्वसैन्यमालोक्य वध्यमानमरातिभिः। मायावी चासृजन्मायां रावणो राक्षसाधिपः
तस्य देहविनिष्क्रान्ताः शतशोऽथ सहस्रशः। राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणयः
तान्रामो जघ्निवान्सर्वान्दिव्येनास्त्रेण राक्षसान्। अथ भूयोपि मायां स व्यदधाद्राक्षसाधिपः
कृत्वा रामस् रूपाणि लक्ष्मणस्य च भारत। अभिदुद्राव रामं च लक्ष्मणं च दशाननः