तं लक्ष्मणोऽभ्यधावच्च प्रगृह्य सशरं धनुः। त्रासयंस्तलघोषेण सिंहः क्षुद्रमृगं यथा
तयोः समभवद्युद्धं सुमहज्जयगृद्धिनोः। दिव्यास्त्रविदुपोस्तीव्रमन्योन्यस्पर्धिनोस्तदा
रावणिस्तु यदा नैनं विशेषयति सायकैः। ततो गुरुतरं यत्नमातिष्ठद्बलिनां वरः
तत एवं महावेगैरर्दयामास तोमरैः। तानागतान्स चिच्छेद सौमित्रिर्निशितैः शरैः
ते निकृत्ताः शरैस्तीक्ष्णैर्न्यपतन्धरणीतले। `साधका रावणेराजौ शतशः शकलीकृताः
तमङ्गदो वालिसुतः श्रीमानुद्यम्य पादपम्। अभिद्रुत्य महावेगस्ताडयामास मूर्धनि
तस्येन्द्रजिदसंभ्रान्तः प्रासेनोरसि वीर्यवान्। प्रहर्तुमैच्छत्तं चास्य प्रासं चिच्छेद लक्ष्मणः
तमभ्याशगतं वीरमङ्गदं रावणात्मजः। गदयाऽताडयत्सव्ये पार्श्वेवानरपुङ्गवम्
तमचिन्त्य प्रहारं स बलवान्वालिनः सुतः। ससर्जेन्द्रजितः क्रोधात्सालस्कन्धं तथाङ्गदः
सोऽङ्गदेन रुपोत्सृष्टो वधायेन्द्रजितस्तरुः। जघानेन्द्रजितः पार्थ रथं साश्वं ससारथिम्
ततो हताश्वात्प्रस्कन्द्य रथात्स हतसारथिः। तत्रैवान्तर्दधे राजन्मायया रावणात्मजः
अन्तर्हितं विदित्वा तं बहुमायं च राक्षसम्। रामस्तं देशमागम्य तत्सैन्यं पर्यरक्षत
स राममुद्दिश्य शरैस्ततो दत्तवरैस्तदा। विव्याध सर्वगात्रेषु लक्ष्मणं च महाबलम्
तमदृश्यंशरैः शूरौ माययाऽन्तर्हितं तदा। योधयामासतुरुभौ रावणिं रामलक्ष्मणौ
स रुषा सर्वगात्रेषु तयोः पुरुषसिंहयोः। व्यसृजत्सायकान्भूयः शतशोऽथ सहस्रशः
तमदृश्यं विचिन्वन्तः सृजन्तमनिशं शरान्। हरयो विविशुर्व्योम प्रगृह्य महतीः शिलाः
तांश्च तौ चाप्यदृश्यः सशरैर्विव्याध राक्षसः। स भृशं ताडयामास रावणिर्मायया वृतः
तौ शरैरर्दितौ वीरौ भ्रारौ रामलक्ष्मणौ। पेततुर्गगनाद्भूमिं सूर्याचन्द्रमसाविव
तावुभौ पतितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ। बबन्ध रावणिर्भूयः शरैर्दत्तवरैस्तदा
तौ वीरौ शरजालेन बद्धाविन्द्रजिता रणे। रेजतुः पुरुषव्याघ्रौ शकुन्ताविव पञ्जरे
दृष्ट्वा निपतितौ भूमौ सर्वाङ्गेषु शराचितौ। सुग्रीवः कपिभिः सार्धं परिवार्योपतस्तिवान्
सुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च। हनुमननीलतारैश्च नलेन च कपीश्वरः
ततस्तं देशमागम्य कृतकर्मा विभीषणः। बोधयामास तौ वीरौ प्रज्ञास्त्रेण प्रमोहितौ
विशल्यौ चापि सुग्रीवः क्षणेनैतौ चकार ह। विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया
तौ लब्धसंज्ञौ नृवरौ विशल्यावुदतिष्ठताम्। उभौ गतक्लमौ चास्तां णेनैतौ महारथौ
ततो विभीषणः पार्थ राममिक्ष्वाकुनन्दनम्। उवाच विज्वरं दृष्ट्वा कृताञ्जलिरिदं वचः
अयमम्भो गृहीत्वातु राजराजस् शासनात्। गुह्कोऽभ्यागतः श्लेतात्त्वत्सकाशमरिंदम
इदमम्भः कुबेरस्ते महाराज प्रयच्छति। अन्तर्हितानां भूतानां दर्शनार्थं परंतप
अनेन मृष्टनयनो भूतान्यन्तर्हितान्युत। भवान्द्रक्ष्यति यस्मै च भवानेतत्प्रदास्यति
तथेति रामस्तद्वारि प्रतिगृह्याभिसंस्कृतम्। चकार नेत्रयोः शौचं लक्ष्मणश्च महामनाः