प्रभुर्वरिष्ठो वरदो वैशंपायनमेव च। संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः
तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः। वसुवीर्यात्समभवन्महावीर्यो महायशाः
वैदार्थविच्च भगवानृषिर्विप्रो महायशाः। शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया
अणीमाण्डव्य इत्येवं विख्यातः स महायशाः। स धर्ममाहूय पुरा महर्षिरिदमुक्तवान्
इषीकया मया बाल्याद्विद्धा ह्येका शकुन्तिका। तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे
तन्मे सहस्रममितं कस्मान्नेहाजयत्तपः। गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः
तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि
विद्वान्विदुररूपेण धार्मिकः किल्बिषात्ततः। संजयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात्
सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महाबलः। सहजं कवचं बिभ्रत्कुण्डलोद्योतिताननः
अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः। वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः
अनादिनिधनो देवः स कर्ता जगतः प्रभुः। अव्यक्तमक्षरं ब्रह्म प्रधानं त्रिगुणात्मकम्
आत्मानमव्ययं चैव प्रकृतिं प्रभवं प्रभुम्। पुरुषं विश्वकर्माणं सत्वयोगं ध्रुवाक्षरम्
अनन्तमचलं देवं हंसं नारायणं प्रभुम्। धातारमजमव्यक्तं यमाहुः परमव्ययम्
कैवल्यं निर्गुणं विश्वमनादिमजमव्ययम्। पुरुषः स विभुः कर्ता सर्वभूतपितामहः
धर्मसंस्थापनार्थाय प्रजज्ञेऽन्धकवृष्णिषु। अस्त्रज्ञौ तु महावीर्यौ सर्वशास्त्रविशारदौ
सात्यकिः कृतवर्मा च नारायणमनुव्रतौ। सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ
भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत। सहर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत
गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः। अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः
अश्वत्थामा ततो जज्ञे द्रोणादेव महाबलः। तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः
वैताने कर्मणि तते पावकात्समजायत। वीरो द्रोणविनाशाय धनुरादाय वीर्यवान्
तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा। विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम्
प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः। तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात्
गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा। दुर्योधनस्य जननी जज्ञातेऽर्थविशारदौ
कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः। क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः
धर्मार्थकुशलो धीमान्मेधावी धूतकल्मषः। विदुरः शूद्रयोनौ तु जज्ञे द्वैपायनादपि
पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक्। द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः
धर्माद्युधिष्ठिरो जज्ञे मारुताच्च वृकोदरः। इन्द्राद्धनंजयः श्रीमान्सर्वशस्त्रभृतां वरः
जज्ञाते रूपसंपन्नावश्विभ्यां च यमावपि। नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ
तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः। दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा
ततो दुःशासनश्चैव दुःसहश्चापि भारत। दुर्मर्षणो विकर्णश्च चित्रसेनो विविंशतिः