स महात्मा महावेगः कुम्भकर्णस् मूर्धनि। बिभेद सालं सुग्रीवो न चैवाव्यथयत्कपिः
ततो विनद्यसहसा सालस्पर्शविबोधितः। दोर्भ्यामादाय सुग्रीवं कुम्भकर्णोऽहरद्बलात्
ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा। अवेक्ष्याभ्यद्रवद्वीरः सौमित्रिर्मित्रनन्दनः
सोऽभिपत्य महर्वेगं रुक्मपुङ्खं महाशरम्। प्राहिणोत्कुम्भकर्णाय लक्ष्मणः परवीरहा
स तस्य देहावरणं भित्त्वा देहं च सायकः। जगाम दारयन्भूमिं रुधिरेण समुक्षितः
तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम्। `वेगेन महताऽऽविष्टस्तिष्ठतिष्ठेति चाब्रवीत्
कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः। अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम्
तस्याभिपततस्तूर्णं क्षुराभ्यामुच्छितौ करौ। चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः
तानप्यस् भुजान्सर्वान्प्रगृहीतशिलायुधान्। क्षुरैश्चिच्छेदलघ्वस्त्रं सौमित्रिः प्रतिदर्शयन्
स बभूवातिकायश्च बहुपादशिरोभुजः। तं ब्रह्मास्त्रेण सौमित्रिर्ददाराद्रिचयोपमम्
स पपात महावीर्यो दिव्यास्त्राभिहतो रणे। महाशनिविनिर्दग्धः पादपोऽङ्कुरवानिव
तं दृष्ट्वा वृत्रसंकाशं कुम्भकर्णं तरस्विनम्। गतासुं पतितं भूमौ राक्षसाः प्राद्रवन्भयात्
तथातान्द्रवतो योधान्दृष्ट्वा तौ दूषणानुजौ। अवस्थाप्याथ सौमित्रिं संक्रुद्धावभ्यधावताम्
तावाद्रवन्तौ संक्रुद्धौ वज्रवेगप्रमाथिनौ। अभिजग्राह सौमित्रिर्विनद्योभौ पतत्रिभिः
ततः सुतुमुलं युद्धमभवद्रोमहर्षणम्। दूषणानुजयोः पार्थ लक्ष्मणस् च धीमतः
महता शरवर्षेण राक्षसौ सोऽभ्यवर्पत। तं चापिवीरौ संक्रुद्धावुभौ तौ समवर्षताम्
मुहूर्तमेवमभवद्वज्रवेगप्रमाथिनोः। सौमित्रेश्च महाबाहोः संप्रहारः सुदारुणः
अथाद्रिशृङ्गमादाय हनुमान्मारुतात्मजः। अभिद्रुत्याददे प्राणान्वज्रवेगस्य रक्षसः
नीलश्च महता ग्राव्णा दूपणावरजं हरिः। प्रमाथिनमभिद्रुत्य प्रममाथ महाबलः
ततः प्रावर्तत पुनः संग्रामः कटुकोदयः। रामरावणसैन्यानामन्योन्यमभिधावताम्
शतसो नैर्ऋतान्वन्या जघ्नुर्वन्यांश्च नैर्ऋताः। नैर्ऋतास्तत्रवध्यन्ते प्रायेण न तु वानराः
ततः श्रुत्वाहतं सङ्ख्ये कुम्भकर्णं सहानुगम्। प्रहस्तं च महेष्वासं धूम्राक्षं चातितेजसम्
पुत्रमिनद्रजितं वीरं रावणः प्रत्यभाषत। जहिरामममित्रघ्न सुग्रीवं च सलक्ष्मणम्
त्वया हि मम सत्पुत्र यशो दीप्तमुपार्जितम्। जित्वावज्रधरं सङ्ख्ये सहस्राक्षं शचीपतिम्
अन्तर्हितः प्रकाशो वा दिव्यैर्दत्तवरैः शरैः। जहि शत्रूनमित्रघ्न मम शस्त्रभृतांवर
रामलक्ष्मणसुग्रीवाः शरस्पर्शं न तेऽनघ। समर्थाः प्रतिसोढुं च कुतस्तदनुयायिनः
अगता या प्रहस्तेन कुम्भकर्णेन चानघ। खरस्यापचितिः सङ्ख्ये तां गच्छ त्वे महाभुज
त्वमद्य निशितैर्बाणैर्हत्वा शत्रून्ससैनिकान्। प्रतिनन्दय मां पुत्र पुरा जित्वेव वासवम्
इत्युक्तः स तथेत्युक्त्वा रथमास्थाय दंशिथः। प्रययाविन्द्रजिद्राजंस्तूर्णमायोधनं प्रति
ततो विश्राव्य विस्पष्टं नाम राक्षसपुङ्गवः। आह्वयामास समरे लक्ष्मणं शुभलक्षणम्