सुदीर्घमिव निःश्वस्य समुत्पत्य वरासनात्। उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः
इत्येवमुक्त्वा विविधैर्वादित्रैः सुमहास्वनैः। शयानमतिनिद्रालुं कुम्भकर्णमबोधयत्
प्रबोध्य महता चैनं यत्नेनाऽऽगतसाध्वसः। स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः। ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम्
धन्योसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी। य इदं दारुणं कालं न जानीषे महाभयम्
एष तीर्त्वाऽर्णवं रामः सेतुना हरिभिः सह। अवमत्येह नः सर्वान्करोति कदनं महत्
मया त्वपहृता भार्या सीता नामास्य जानकी। तां नेतुं स इहायातो बद्ध्वा सेतुं महार्णवे
तेन चैव प्रहस्तादिर्महान्नः स्वजनो हतः। तस्य नान्यो निहन्ताऽस्ति त्वामृतेशत्रुकर्शन
सदंशितोऽभिनिर्याहि त्वमद्य बलिनांवर। रामादीन्समरे सर्वाञ्जहि शत्रूनरिंदम
दूषणावरजौ चैव वज्रवेगप्रमाथिनौ। तौ त्वां बलेन महता सहितावनुयास्यतः
इत्युक्त्वा राक्षुसपतिः कुम्भकर्णं तरस्विनम्। संदिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ
तथ्त्युक्त्वा युतौ वीरौ रावणं दूषाणानुजौ। कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात्
ततो निर्याय स्वपुरात्कुम्भकर्णः सहानुगः। अपश्यत्कपिसैन्यं रतज्जितकाश्यग्रतः स्थितम्
स वीक्षमाणस्तत्सैन्यं रामदर्शनकाङ्क्षया। अपश्यच्चापि सौमित्रिं धनुष्पाणिं व्यवस्थितम्
तमभ्येत्याशु हरयः परिवब्रुः समन्ततः। `शैलवृक्षायुधा नादानमुञ्चन्भीषणास्ततः
अभ्यघ्नंश्च महाकायैर्बहुभिर्जगतीरुहैः। करजैरतुदंश्चान्ये विहाय भयमुत्तमम्
बहुधा युध्यमानास्ते युद्धमार्गैः प्लवंगमाः। नानाप्रहरणैर्भीमै राक्षसेन्द्रमताडयन्
स ताड्यमानः प्रहसन्भक्षयामास वानरान्। बलं चण्डबलाख्यं च वज्रबाहुं च वानरम्
तद्दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः। उदक्रोशन्परित्रस्तास्तारप्रभृतयस्तदा
तानुच्चैः क्रोशतः सैन्याञ्श्रुत्वा स हरियूथपान्। अभिदुद्राव सुग्रीवः कुम्भकर्णमपेतभीः
ततो निपत्य वेगेन कुम्भकर्णं महामना। सालेन जघ्निवान्मूर्ध्निं बलेन कपिकुञ्जरः
स महात्मा महावेगः कुम्भकर्णस् मूर्धनि। बिभेद सालं सुग्रीवो न चैवाव्यथयत्कपिः
ततो विनद्यसहसा सालस्पर्शविबोधितः। दोर्भ्यामादाय सुग्रीवं कुम्भकर्णोऽहरद्बलात्
ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा। अवेक्ष्याभ्यद्रवद्वीरः सौमित्रिर्मित्रनन्दनः
सोऽभिपत्य महर्वेगं रुक्मपुङ्खं महाशरम्। प्राहिणोत्कुम्भकर्णाय लक्ष्मणः परवीरहा
स तस्य देहावरणं भित्त्वा देहं च सायकः। जगाम दारयन्भूमिं रुधिरेण समुक्षितः
तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम्। `वेगेन महताऽऽविष्टस्तिष्ठतिष्ठेति चाब्रवीत्
कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः। अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम्
तस्याभिपततस्तूर्णं क्षुराभ्यामुच्छितौ करौ। चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः
तानप्यस् भुजान्सर्वान्प्रगृहीतशिलायुधान्। क्षुरैश्चिच्छेदलघ्वस्त्रं सौमित्रिः प्रतिदर्शयन्
स बभूवातिकायश्च बहुपादशिरोभुजः। तं ब्रह्मास्त्रेण सौमित्रिर्ददाराद्रिचयोपमम्