विभीषणः प्रहस्तं च प्रहस्तश्च विभीषणम्। खगपत्रैः शरैस्तीक्ष्णैरभ्यवर्षद्गतव्यथः
तेषां बलवतामासीन्महास्त्राणां समागमः। विव्यथुः सकला येन त्रयो लोकाश्चराचराः
ततः प्रहस्तः सहसा समभ्येत्य विभीषणम्। गदया ताडयामास विनद्य रणकर्कशम्
स तयाऽभिहतो धीमान्गदया भीमवेगया। नाकम्पत महाबाहुर्हिमवानिव सुस्थिरः
ततः प्रगृह्यविपुलां शतघण्टां विभीषणः। अनुमन्त्र्य महाशक्तिं चिक्षेपास् शिरः प्रति
पतन्त्या स तया वेगाद्राक्षसोऽशनिवेगया। हृतोत्तामङ्गो ददृशे वातरुग्ण इव द्रुमः
तं दृष्ट्वा निहतं सङ्ख्ये प्रहस्तं क्षणदाचरम्। अभिदुद्राव धूम्राक्षो वेगेन महता कपीन्
तस् मेघोपमं सैन्यमापतद्भीमदर्शनम्। दृष्ट्वैव सहसा दीर्णा रणे वानरपुङ्गवाः
ततस्तान्सहसा दीर्णान्दृष्ट्वा वानरपुङ्गवान्। निर्ययौ कपिशार्दूलो हनूमान्मारुतात्मजः
तं दृष्ट्वाऽवस्थितं सङ्ख्ये हरयः पवनात्मजम्। महत्या त्वरया राजत्संन्यवर्तन्त सर्वशः
ततः शब्दो महानासीत्तुमुलो रोमहर्षणः। रामरावणसैन्यानामन्योन्यमभिधावताम्
तस्मिन्प्रवृत्ते संग्रामे घोरे रुधिरकर्दमे। क्षूम्राक्षः कपिसैन्यं तद्द्रावयामास पत्रिभिः
तं स रक्षोमहामात्रमापतन्तं सपत्नजित्। प्रतिजग्राह हनुमांस्तरसा पवनात्मजः
तयोर्युद्धमभूदधोरं हरिराक्षसवीरयोः। जीगीषतोर्युधाऽन्योन्यमिन्द्रप्रह्लादयोरिवं
कगदाभिः परिघैश्चैव राक्षसो जघ्निवान्कपिम्। कपिश्च जघ्निवान्रः सस्कन्धविटपैर्द्रुमैः
ततस्तमतिकोपेन साश्वं सरथसारथिम्। धूम्राक्षमवधीत्क्रुद्धो हनूमान्मारुतात्मजः
ततस्तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम्। हरयो जातविश्रम्भा जघ्नुरन्ये च सैनिकान्
ते वध्यमाना हरिभिर्बलिभिर्जितकाशिभिः। राक्षसा भग्नसंकल्पा लङ्कामभ्यपतन्भयात्
तेऽभिपत्य पुरं भग्ना हतशेषा निशाचराः। सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन्
श्रुत्वा तु रावणस्तेभ्यः प्रहस्तं निहतं युधि। धूम्राक्षं च महेष्वासं ससैन्यं सहराक्षसैः
सुदीर्घमिव निःश्वस्य समुत्पत्य वरासनात्। उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः
इत्येवमुक्त्वा विविधैर्वादित्रैः सुमहास्वनैः। शयानमतिनिद्रालुं कुम्भकर्णमबोधयत्
प्रबोध्य महता चैनं यत्नेनाऽऽगतसाध्वसः। स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः। ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम्
धन्योसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी। य इदं दारुणं कालं न जानीषे महाभयम्
एष तीर्त्वाऽर्णवं रामः सेतुना हरिभिः सह। अवमत्येह नः सर्वान्करोति कदनं महत्
मया त्वपहृता भार्या सीता नामास्य जानकी। तां नेतुं स इहायातो बद्ध्वा सेतुं महार्णवे
तेन चैव प्रहस्तादिर्महान्नः स्वजनो हतः। तस्य नान्यो निहन्ताऽस्ति त्वामृतेशत्रुकर्शन
सदंशितोऽभिनिर्याहि त्वमद्य बलिनांवर। रामादीन्समरे सर्वाञ्जहि शत्रूनरिंदम
दूषणावरजौ चैव वज्रवेगप्रमाथिनौ। तौ त्वां बलेन महता सहितावनुयास्यतः
इत्युक्त्वा राक्षुसपतिः कुम्भकर्णं तरस्विनम्। संदिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ