स मापराशिसदृशैर्बभूव क्षणादाचरैः। कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः
पेतुः शलविभिन्नाङ्गा बहवो वानरर्पभाः। स्तम्भतोरणभग्नाश्चपेतुस्तत्रनिशाचराः
केशाकेश्यभवद्युद्धं रक्षसां वानरैः सह। नखैर्दन्तैश्च वीराणां खादतां वै परस्परम्
निष्टनन्तो ह्युभयतस्तत्र वानरराक्षसाः। हतानिपतिता भूमौ न मुञ्चन्ति परस्परम्
रामस्तु शरजालानिववर्ष जलदो यथा। तानिलङ्कां समासाद्य जघ्रुस्तान्रजनीचरान्
सौमित्रिरपि नाराचैर्दृढधन्वा जितक्लमः। आदिश्यादिश्य दुर्गस्थान्पातयामास राक्षसान्
ततः प्रत्यवहारोऽभूत्सैन्यानां राधवाज्ञया। कृते विमर्दे लङ्कायां लब्धलक्ष्योजयोत्तरः
ततो निविशमानांस्तान्सैनिकान्रावणानुगाः। अभिजग्मुर्गणाऽनके पिशाचक्षुद्ररक्षसाम्
पर्वणः पतनो जम्भः खरः क्रोधवशो हरिः। प्ररुजश्चारुजश्चैव प्रघसश्चैवमादयः
ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम्। अन्तर्धानवधं तज्ज्ञश्चकार स विभीषणः
ते दृश्यमाना हरिभिर्बलिभिर्दूरपातिभिः। निहताः सर्वशो राजन्महीं जग्मुर्गतासवः
अमृष्यमाणः सबलो रावणो निर्ययावथ। राक्षसानां बलैर्घोरैः पिशाचानांच संवृतः
युद्धशास्त्रविधानज्ञ उशना इव चापरः। व्यूह्यचौशनसं व्यूहं हरीनभ्यवहारयत्
राघवस्तु विनिर्यान्तं व्यूढानीकं दशाननम्। बार्हस्पत्यं विधं कृत्वा प्रतिव्यूह्य ह्यदृश्यत
समेत्य युयुधे तत्र ततो रामेण रावणः। युयुधे लक्ष्मणश्चापि तथैवेन्द्रजिता सह
विरूपाक्षेण सुग्रीवस्तारेण च निस्वर्वटः। पौण्ड्रेण च नलस्तत्र पदुशः पनसेन च
विषह्यं यं हि यो मेने स स तेन समेयिवान्। युयुधे युद्धवेलायां स्वबाहुबलमाश्रितः
स संप्रहारो ववृधे भीरूणां भयवर्धनः। रोमसंहर्षणो घोरः पुरा देवासुरे यथा
रावणो राममानर्च्छच्छक्तिशूलासिवृष्टिभिः। निशितैरायसैस्तीक्ष्णै रावणं चापि राघवः
तथैवेन्द्रजितं यत्तं लक्ष्मणो मर्मभेदिभिः। इन्द्रजिच्चापि सौमित्रिं बिभेद बहुभिः शरैः
विभीषणः प्रहस्तं च प्रहस्तश्च विभीषणम्। खगपत्रैः शरैस्तीक्ष्णैरभ्यवर्षद्गतव्यथः
तेषां बलवतामासीन्महास्त्राणां समागमः। विव्यथुः सकला येन त्रयो लोकाश्चराचराः
ततः प्रहस्तः सहसा समभ्येत्य विभीषणम्। गदया ताडयामास विनद्य रणकर्कशम्
स तयाऽभिहतो धीमान्गदया भीमवेगया। नाकम्पत महाबाहुर्हिमवानिव सुस्थिरः
ततः प्रगृह्यविपुलां शतघण्टां विभीषणः। अनुमन्त्र्य महाशक्तिं चिक्षेपास् शिरः प्रति
पतन्त्या स तया वेगाद्राक्षसोऽशनिवेगया। हृतोत्तामङ्गो ददृशे वातरुग्ण इव द्रुमः
तं दृष्ट्वा निहतं सङ्ख्ये प्रहस्तं क्षणदाचरम्। अभिदुद्राव धूम्राक्षो वेगेन महता कपीन्
तस् मेघोपमं सैन्यमापतद्भीमदर्शनम्। दृष्ट्वैव सहसा दीर्णा रणे वानरपुङ्गवाः
ततस्तान्सहसा दीर्णान्दृष्ट्वा वानरपुङ्गवान्। निर्ययौ कपिशार्दूलो हनूमान्मारुतात्मजः
तं दृष्ट्वाऽवस्थितं सङ्ख्ये हरयः पवनात्मजम्। महत्या त्वरया राजत्संन्यवर्तन्त सर्वशः