हन्तास्मि त्वां सहामात्यैर्युध्यस्व पुरुषो भव। पश्य मे धनुषो वीर्यं मानुषस् निशाचर
मुच्यतां जानकी सीता न मे मोक्ष्यमसि कर्हिचित्। अराक्षसमिमं लोकंकर्ताऽस्मि निशितैः शरैः
इतितस् ब्रुवाणस् दूतस् परुषं वचः। श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्च्छितः
हङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः। चतुर्ष्वङ्गेषु जगृहुः शार्दूलमिव पक्षिणः
तांस्तथाङ्गेषु संसक्तानङ्गदो रजनीचरान्। आदायैव खमुत्पत्य प्रासादतलमाविशत्
वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः। भुवि संभिन्नहृदयाः प्रहारवरपीडिताः
संसक्तोहर्म्यशिखरात्तस्मात्पुनरवापतत्। लङ्घयित्वा पुरं लङ्कां सुवेलस्य समीपतः
कोसलेन्द्रमथागम्य सर्वमावेद्य वानरः। विशश्राम स तेजस्वी राघवेणाभिनन्दितः
ततः सर्वाभिसारेण हरीणां वातरंहसाम्। भेदयामास लङ्कायाः ग्राकारं रघुनन्दनः
विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणः। दक्षिणं नगरद्वारमवामृद्गाद्दुरासदम्
करभारुणगात्राणां हरीणां युद्धशालिनाम्। कोटीशतसहस्रेण लङ्कामभ्यपतत्तदा
प्रलम्बबाहूरुकरजङ्घान्तरविलम्बिनाम्। ऋक्षाणआं धूम्रवर्णानां तिस्रः कोठ्यो व्यवस्थिताः
उत्पतद्भिः पतद्भिश्च निपतद्भिश्च वानरैः। नादृश्यत तदा सूर्यो रजसा नाशितप्रभः
शालिप्रसूनसदृशैः शिरीपकुसुमप्रभैः। तरुणादित्यसदृशैः शणगौरैश्च वैनरैः
प्राकारं ददृशुस्ते तु समन्तात्कपिलीकृतम्। राक्षसा विस्मिता राजन्सस्त्रीवृद्धाः समन्ततः
बिभिदुस्ते मणिस्तम्भान्कर्णाट्टशिखराणि च। भग्नोन्मथितशृङ्गाणि यन्त्राणि च विचिक्षिपुः
परिगृह्य शतघ्नीश्च सचक्राः सगुडोपलाः। चिक्षिपुर्भुजवेगेन लङ्कामध्येमहास्वनाः
प्राकारस्थाश्चये केचिन्निशाचरगणास्तथा। प्रदुद्रुवुस्ते शतशः कपिभिः समभिद्रुताः
ततस्तु राजवचनाद्राक्षसाः कामरूपिणः। निर्ययुर्विकृताकाराः सहस्रशतसङ्घशः
शखवर्षाणि वर्षन्तो द्रावयित्वा वनौकसः। प्राकारं शोभयन्तस्ते परं विस्मयमास्थिताः
स मापराशिसदृशैर्बभूव क्षणादाचरैः। कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः
पेतुः शलविभिन्नाङ्गा बहवो वानरर्पभाः। स्तम्भतोरणभग्नाश्चपेतुस्तत्रनिशाचराः
केशाकेश्यभवद्युद्धं रक्षसां वानरैः सह। नखैर्दन्तैश्च वीराणां खादतां वै परस्परम्
निष्टनन्तो ह्युभयतस्तत्र वानरराक्षसाः। हतानिपतिता भूमौ न मुञ्चन्ति परस्परम्
रामस्तु शरजालानिववर्ष जलदो यथा। तानिलङ्कां समासाद्य जघ्रुस्तान्रजनीचरान्
सौमित्रिरपि नाराचैर्दृढधन्वा जितक्लमः। आदिश्यादिश्य दुर्गस्थान्पातयामास राक्षसान्
ततः प्रत्यवहारोऽभूत्सैन्यानां राधवाज्ञया। कृते विमर्दे लङ्कायां लब्धलक्ष्योजयोत्तरः
ततो निविशमानांस्तान्सैनिकान्रावणानुगाः। अभिजग्मुर्गणाऽनके पिशाचक्षुद्ररक्षसाम्
पर्वणः पतनो जम्भः खरः क्रोधवशो हरिः। प्ररुजश्चारुजश्चैव प्रघसश्चैवमादयः
ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम्। अन्तर्धानवधं तज्ज्ञश्चकार स विभीषणः