सर्वराक्षसराज्येचाप्यभ्यपिञ्चद्विभीषणम्। चक्रे च मन्त्रसचिवं सहृदंलक्ष्मणस् च
विभीषणमते चैव सोऽत्यक्रामन्महार्णवम्। ससैन्यः सेतुना तेन मार्गेणैव नराधिपः
ततो गत्वासमासाद्य लङ्कोद्यानान्यनेकशः। भेदयामास कपिभिर्महान्ति च बहूनि च
तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ। चरौ वानररूपेण तौ जग्राह विभीषणः
प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ। दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत्
निवेश्योपवने सैन्यं स शूरः प्राज्यवानरम्। प्रेषयामास दुत्येन रावणस्य ततोऽङ्गदम्
प्रभूतान्नोदकेतस्मिन्बहुमूलफले वने। सेनां निवेश्य काकुत्स्थो विधिवत्पर्यरक्षत
रावणः संविधं चक्रे लङ्कायां शास्त्रनिर्मिताम्। प्रकृत्यैवदुराधर्षा दृढप्राकारतोरणा
अगाधतोयाः परिखा मीननक्रसमाकुलाः। बभूवुः सप्त दुर्धर्षाः स्वादिरैः शङ्कुभिश्चिताः
कर्णाटयन्त्रा दुर्धर्षा बभूवुः सहुडोपलाः। साशीविषघटायोधाः ससर्जरसपांसवः
मुसलालातनाराचतोमरासिपरश्वथैः। अन्विताश्चशतघ्नीभिः समधूच्छिष्टमुद्गराः
पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाः। बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः
अङ्गदस्त्वथ लङ्कायां द्वारदेशमुपागतः। विदितो रराक्षसेन्द्रस्य प्रविवेशगतव्यथः
मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलः। शुशुभे मेघमालाभिरादित्य इव संवृतः
ससमासाद्य पौलस्त्यममात्यैरभिसंवृतम्। रामसंदेशमामन्त्र्य वाग्मी वक्तुं प्रचक्रमे
आह त्वां राघवो राजन्कोसलेन्द्रो महायशाः। प्राप्तकालमिदं वाक्यं तदादत्स्व सुदुर्मते
अकृतात्मानमासाद्य राजानमनये रतम्। विनश्यन्त्यनयाविष्टा देशाश्च नगराणि च
त्वयैकेनापराद्धं मे सीतामाहरता बलात्। वधायानपराद्धानामन्येषां तद्भविष्यति
ये त्वया बलदर्पाभ्यामाविष्टेन वनेचराः। ऋषयोहिंसिताः पूर्वंदेवाश्चाप्यवमानिताः
राजर्षयश्च निहता रुदत्यश्चाहृताः स्त्रियः। तदिदं समनुप्राप्तं फलंतस्यानयस्य ते
हन्तास्मि त्वां सहामात्यैर्युध्यस्व पुरुषो भव। पश्य मे धनुषो वीर्यं मानुषस् निशाचर
मुच्यतां जानकी सीता न मे मोक्ष्यमसि कर्हिचित्। अराक्षसमिमं लोकंकर्ताऽस्मि निशितैः शरैः
इतितस् ब्रुवाणस् दूतस् परुषं वचः। श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्च्छितः
हङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः। चतुर्ष्वङ्गेषु जगृहुः शार्दूलमिव पक्षिणः
तांस्तथाङ्गेषु संसक्तानङ्गदो रजनीचरान्। आदायैव खमुत्पत्य प्रासादतलमाविशत्
वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः। भुवि संभिन्नहृदयाः प्रहारवरपीडिताः
संसक्तोहर्म्यशिखरात्तस्मात्पुनरवापतत्। लङ्घयित्वा पुरं लङ्कां सुवेलस्य समीपतः
कोसलेन्द्रमथागम्य सर्वमावेद्य वानरः। विशश्राम स तेजस्वी राघवेणाभिनन्दितः
ततः सर्वाभिसारेण हरीणां वातरंहसाम्। भेदयामास लङ्कायाः ग्राकारं रघुनन्दनः
विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणः। दक्षिणं नगरद्वारमवामृद्गाद्दुरासदम्