विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेण वै परः। प्लवोडुपप्रतारश्चनैवात्रमम रोचते
अहं त्विमं जलनिधिं समारप्स्याम्युपायतः। प्रतिशेष्याम्युपवसन्दर्शयिष्ति मां ततः
न चेद्दर्शयिता मार्गं धक्ष्याम्यनमहं ततः। महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः
इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः। प्रतिशिस्ये जलनिधं विधिवत्कुशसंस्तरे
सागरस्तु ततः स्वप्ने दर्शयामास राघवम्। देवो नदनदीमर्ता श्रीमान्यादोगणैर्वृतः
कौसल्यामातरित्येवमाभाष्य मधुरं वचः। इदमित्याह रत्नानामाकरैः शतशो वृतः
ब्रूहि किं तेकरोम्यत्रसाहाय्यं पुरुषर्षभ। ऐक्ष्वाको ह्यस्मि ते ज्ञाती राम सत्यपराक्रमः। एवमुक्तः समुद्रेण रामो वाक्यमथाब्रवीत्
मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते। येन गत्वादशग्रीवं हन्याम कुलपांसनम्। `राक्षसंसानुबन्धं तं मम भार्यापहारिणम्
यद्येवं याचतो मार्गं न प्रदास्यति मे भवान्। शरैस्त्वां शोषयिष्यामि दिव्यास्त्रयतिमन्त्रितैः
इत्येवंब्रुवतः श्रुत्वारामस्य वरुणालयः। उवाचव्यथितोवाक्यमितिबद्धाञ्जलिःस्थितः
नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव। शृणु चेदं वचोराम श्रुत्वा कर्तव्यमाचर
यदि दास्यामि ते मार्गं सैन्यस् व्रजतोऽऽज्ञया। अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषोबलात्
अस्तित्वत्रनलो नाम वानरः शिल्पिसंमतः। त्वष्टुः काकुत्स्थ तनयो बलवान्विश्वकर्मणः
स यत्काष्ठं तृणं वाऽपिशिलां वा क्षेप्स्यते मयि। सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति
इत्युक्त्वाऽन्तर्हिते तस्मिन्रामो नलमुवाच ह। कुरु सेतुं समुद्रे त्वंशक्तो ह्यसि मतो मम
तेनोपायेन काकुत्स्थः सतुबन्धमकारयत्। दशयोजनविस्तारमायतं शतयोजनम्
नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि। रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसंनिभः
तत्रस्थं स तु धर्मात्मा समागच्चद्विभीषणः। भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह
प्रतिजग्राह रामस्तं स्वागतेन महामनाः। सुग्रीवस्य तु शङ्काऽभूत्प्रणिधिः स्यादिति स्मह
राघवः सत्यचेष्टाभिः सम्यक्व चरितेङ्गितैः। यदा तत्त्वेन तुष्टोऽभूत्तत एनमपूजयत्
सर्वराक्षसराज्येचाप्यभ्यपिञ्चद्विभीषणम्। चक्रे च मन्त्रसचिवं सहृदंलक्ष्मणस् च
विभीषणमते चैव सोऽत्यक्रामन्महार्णवम्। ससैन्यः सेतुना तेन मार्गेणैव नराधिपः
ततो गत्वासमासाद्य लङ्कोद्यानान्यनेकशः। भेदयामास कपिभिर्महान्ति च बहूनि च
तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ। चरौ वानररूपेण तौ जग्राह विभीषणः
प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ। दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत्
निवेश्योपवने सैन्यं स शूरः प्राज्यवानरम्। प्रेषयामास दुत्येन रावणस्य ततोऽङ्गदम्
प्रभूतान्नोदकेतस्मिन्बहुमूलफले वने। सेनां निवेश्य काकुत्स्थो विधिवत्पर्यरक्षत
रावणः संविधं चक्रे लङ्कायां शास्त्रनिर्मिताम्। प्रकृत्यैवदुराधर्षा दृढप्राकारतोरणा
अगाधतोयाः परिखा मीननक्रसमाकुलाः। बभूवुः सप्त दुर्धर्षाः स्वादिरैः शङ्कुभिश्चिताः
कर्णाटयन्त्रा दुर्धर्षा बभूवुः सहुडोपलाः। साशीविषघटायोधाः ससर्जरसपांसवः