एते चान्ये च बहवो हरियूथपयूथपाः। असङ्ख्येया महाराज समीयू रामकारणात्
गिरिकूटनिभाङ्गानां सिंहानामिव गर्जताम्। श्रूयते तुमुलः शब्दस्तत्रतत्रप्रधावताम्
गिरिकूटनिभाः क्नचित्केचिन्महिषसन्निभाः। शरदभ्रप्रतीकाशाः केचिद्धिङ्गुलकाननाः
उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः। उद्धुन्वन्तोऽपरे रेणून्समाजग्मुः समन्ततः
सवानरमहासैन्यः पूर्णसागरसन्निभः। निवेशमकरोत्तत्रसुग्रीवानुमते तदा
ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः। तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते
तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव। प्रययौ राघवः श्रीमान्सुग्रीवसहितस्तदा
मुखमासीत्तु सैन्यस्य हनूमान्मारुतात्मजः। जघनं पालयामास सौमित्रिरकुतोभयः
बद्धगोधाङ्गुलित्रणौ राघवौ तत्रजग्मतुः। वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव
प्रबभौ हरिसैन्यं तत्सालतालशिलायुधम्। सुमहच्छालिभवनं यथा सूर्योदयं प्रति
नलनीलाङ्गदक्राथमैन्दद्विविदपालिता। ययौ सुमहती सेना राघवस्यार्थसिद्धये
विविधेषु प्रशस्तेषु बहुमूलफलेषु च। प्रभूतमधुमांसेषु वारिमत्सु विवेषु च
निवसन्ती निराबाधा तथैवगिरिसानुषु। उपायाद्धिरिसेना सा क्षारोदमथ मागरम्
द्वितीयसागरनिमं तद्बलंबहुलध्वजम्। वेलावनं समासाद् निवासमकरोत्तदा
ततो दाशरथिः श्रीमान्सुग्रीवं प्रत्यभाषत। मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः
उपायः कोनु भवतां मतः सागरलङ्घने। इयं हि महती सेना सागरश्चातिदुस्तरः
तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः। समर्था लङ्घने सिन्दोर्न तत्कृत्स्नस्य वानराः
केचिन्नौभिर्व्यवस्यन्ति केचिच्च विविधैः प्लवैः। नेति रामस्तु तानसर्वान्सान्त्वयन्प्रत्यभाषत
शतयोजनविस्तारं न शक्ताः सर्ववानराः। क्रान्तुं तोयनिधिं वीरानैषा वो नैष्ठिकी मतिः
नावो न सन्ति सेनाया बह्व्यस्तारयितुं तथा। वणिजामुपघातं च कथमस्मद्विधश्चरेत्
विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेण वै परः। प्लवोडुपप्रतारश्चनैवात्रमम रोचते
अहं त्विमं जलनिधिं समारप्स्याम्युपायतः। प्रतिशेष्याम्युपवसन्दर्शयिष्ति मां ततः
न चेद्दर्शयिता मार्गं धक्ष्याम्यनमहं ततः। महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः
इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः। प्रतिशिस्ये जलनिधं विधिवत्कुशसंस्तरे
सागरस्तु ततः स्वप्ने दर्शयामास राघवम्। देवो नदनदीमर्ता श्रीमान्यादोगणैर्वृतः
कौसल्यामातरित्येवमाभाष्य मधुरं वचः। इदमित्याह रत्नानामाकरैः शतशो वृतः
ब्रूहि किं तेकरोम्यत्रसाहाय्यं पुरुषर्षभ। ऐक्ष्वाको ह्यस्मि ते ज्ञाती राम सत्यपराक्रमः। एवमुक्तः समुद्रेण रामो वाक्यमथाब्रवीत्
मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते। येन गत्वादशग्रीवं हन्याम कुलपांसनम्। `राक्षसंसानुबन्धं तं मम भार्यापहारिणम्
यद्येवं याचतो मार्गं न प्रदास्यति मे भवान्। शरैस्त्वां शोषयिष्यामि दिव्यास्त्रयतिमन्त्रितैः
इत्येवंब्रुवतः श्रुत्वारामस्य वरुणालयः। उवाचव्यथितोवाक्यमितिबद्धाञ्जलिःस्थितः