उपवासतपःशीला भर्तृदर्शनलालसा। जटिला मलदिग्धाङ्गीकृश दीना तपस्विन
निमित्तैस्तामहं सीतामुपलभ्य पृथग्विधैः। उपसृत्याब्रवं चार्यामभिगम्य रहोगताम्
सीते रामस्य दूतोऽहंवानरोमारुतात्मजः। त्वद्दर्शनमभिप्रप्सुरिह प्राप्तो विहायसा
राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ। सर्वशाखामृगेन्द्रेण सुग्रीवेणाभिपालितौ
कुशलंत्वाब्रवीद्रामःसीते सौमित्रिणा सह। सखिभावाच् सुग्रीवः कुशलं त्वाऽनुपृच्छति
क्षिप्रमेष्यति ते भर्ता सर्वशाखामृगैः सह। प्रत्ययं कुरु मे देवि वानरोऽस्मि न राक्षसः
मुहूर्तमिवच ध्यात्वा सीता मां प्रत्युवाच ह। अवैमि त्वांहनूमन्तमविन्ध्यवचनादहम्
अविन्ध्यो हि महाबाहो राक्षसो वृद्धसंमतः। कथितस्तेन सुग्रीवस्त्वद्विधैः सचिवैर्वृतः
गम्यतामिति चोक्त्वा मां सीता पादादिमं मणिम्। घारिता येन वैदेही कालमेतमनिन्दिता
प्रत्ययार्थं कथां चेमां कथयामास जानकी। क्षिप्तामिषीकां काकाय चित्रकूटे महागिरौ
भवता पुरुषव्याघ्र प्रत्यभिज्ञानकारणात्। `एकाक्षिविकलः काकः सुदुष्टात्मा कृतश्चवै
ग्राहयित्वाऽहमात्मानं ततो दग्ध्वाच तां पुरीम्। संप्राप्त इतितं रामः प्रियवादिनमार्चयत्
ततस्तत्रैवरामस्य समासीनस्य तैः सह। समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात्तदा
वृतः कोटिसहस्रेण वानराणां तरस्विनाम्। श्वशुरो वालिनः श्रीमान्सुषेणो राममभ्ययात्
कोटीशतवृतोवाऽपिगजो गवय एव च। वानरेन्रौ महावीर्यौ पृथक्पृथगदृश्यताम्
षष्टिकोटिसहस्राणि प्रकर्षन्प्रत्यदृश्यत। गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः
गन्धमादनवासी तु प्रथितो गन्धमादनः। कोटीशतसहस्राणि हरीणां समकर्षत
पनसो नाम मेधावी वानरःसुमहाबलः। कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति
श्रीमान्दधिमुखो नाम हरिवृद्धोऽतिवीर्यवान्। प्रचकर्ष महासैनयं हरीणां भीमतेजसाम्
कृषणानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम्। कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति
एते चान्ये च बहवो हरियूथपयूथपाः। असङ्ख्येया महाराज समीयू रामकारणात्
गिरिकूटनिभाङ्गानां सिंहानामिव गर्जताम्। श्रूयते तुमुलः शब्दस्तत्रतत्रप्रधावताम्
गिरिकूटनिभाः क्नचित्केचिन्महिषसन्निभाः। शरदभ्रप्रतीकाशाः केचिद्धिङ्गुलकाननाः
उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः। उद्धुन्वन्तोऽपरे रेणून्समाजग्मुः समन्ततः
सवानरमहासैन्यः पूर्णसागरसन्निभः। निवेशमकरोत्तत्रसुग्रीवानुमते तदा
ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः। तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते
तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव। प्रययौ राघवः श्रीमान्सुग्रीवसहितस्तदा
मुखमासीत्तु सैन्यस्य हनूमान्मारुतात्मजः। जघनं पालयामास सौमित्रिरकुतोभयः
बद्धगोधाङ्गुलित्रणौ राघवौ तत्रजग्मतुः। वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव
प्रबभौ हरिसैन्यं तत्सालतालशिलायुधम्। सुमहच्छालिभवनं यथा सूर्योदयं प्रति