स तद्रामाय मेधावी शशंस प्लवगर्षभः। रामश्चाप्यनुमानेन मेने दृष्टां तु मैथिलीम्
हनुमत्प्रमुखाश्चापि विश्रान्तास्ते प्लवङ्गमाः। अभिजग्मुर्हरीन्द्रं तं रामलक्ष्मणसन्निधौ
गतिं च मुखवर्णं च दृष्ट्वारामो हनूमतः। अगमत्प्रत्ययं भूयो दृष्टा सीतेति भारत
हनूमत्प्रमुखास्ते तु वानराः पूर्णमानसाः। प्रणेमुर्विधिवद्रामं सुग्रीवं लक्ष्मणं तथा
तानुवाचानतान्रामः प्रगृह्य सशरं धनुः। अपि मां जीवयिष्यध्वमपि वः कृतकृत्यता
अपि राज्यमयोध्यायां कारयिष्याम्यहं पुनः। निहत्यसमरे शत्रूनाहृत्यजनकात्मजाम्
अमोक्षयित्वावैदेहीमहत्वा च रणे रिपून्। हृतदारोऽवधूतश्चनाहं जीवितुमुत्सहे
इत्युक्तवचनं रामं प्रत्युवाचानिलात्मजः। प्रियमाख्यामि ते राम दृष्टा सा जानकी मया
विचित्य दक्षिणामाशां सपर्वतवनाकराम्। श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महागुहां
प्रविशामो वयं तां तु बहुयोजनमायताम्। अन्धकारां सुविपिनां गहनां कीटसेविताम्
गत्वा सुमहदध्वानमादित्यस् प्रभां ततः। दृष्टवन्तः स्म तत्रैवभवनं दिव्यमन्तरा
गयस् किल दैत्यस् तदा सद्वेश्म राघव। तत्रप्रभावती नाम तपोऽतप्यत तापसी
तया दत्तानि भोज्यानिपानानिविविधानि च। भुकत्वा लब्धबलाः सन्तस्तयोक्तेन पथा ततः
निर्याय तस्मादुद्देशात्पश्यामो लवणाम्भसः। समीपे सह्यमलयौ दर्दुरं च महागिरिम्
ततो मलयमारुह्य पश्यन्तो वरुणालयम्। कविषण्णा व्यथिताः खिन्ना निराशा जीविते भृशम्
अनेकशतविस्तीर्णं योजनानां महोदधिम्। तिमिनक्रझषावासं चिन्तयन्तः सुदुःखिताः
तत्रानशनसंकल्पं कृत्वाऽऽसीना वयं तदा। ततः कथान्ते गृध्रस्य जटायोरभवत्कथा
ततः पर्वतशृङ्गाभं घोररूपं भयावहम्। पक्षिणं दृष्टवन्तः स्म वैनतियेमिवापरम्
सोऽस्मानतर्कयद्भोक्तुमथाभ्येत्य वचोऽब्रवीत्। भोः क एष मम भ्रातुर्जटायोः कुरुते कथाम्
संपातिर्नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः। अन्योन्यस्पर्धया रूढावावामदित्यसत्पदम्
ततो दग्धाविमौ पक्षौ न दग्धौ तु जटायुषः। तस्मान्मे चिरदृष्टः स भ्राता गृध्रपतः प्रियः
निर्दग्धपक्षः पतितो ह्यहमस्मिन्महागिरौ। `द्रष्टुं वीरं न शक्नोमि भ्रातरं वै जटायुषम्
तस्यैवं वदतोऽस्माभिर्हतो भ्राता निवेदितः। व्यसनं भवतश्चेदं संक्षेपाद्वै निवेदितम्
स सम्पातिस्तदा राजञ्श्रुत्वासुमहदप्रियम्। विषण्णचेताः पप्रच्छ पुनरस्मानरिंदम
कः सरामः कथं सीता जटायुश्च कथं हतः। इच्छामि सर्वमेवैतच्छ्रोतुं प्लवगसत्तमाः
तस्याहं सर्वमेवैतद्भवतो व्यसनागमम्। प्रायोपवेशने चैवहेतुं विस्तरशोऽब्रुवम्
सोऽस्मानाश्वासयामास वाक्येनानेन पक्षिराट्। रावणो विदितो मह्यं लङ्का चास्य महापुरी
दृष्टापारे समुद्रस्य त्रिकूटगिरिकन्दरे। भवित्री तत्र वैदेही न रमेऽस्त्यत्रविचारणा
इतितस्य वचः श्रुत्वा वयमुत्थाय सत्वराः। सागरक्रमणे मन्त्रं मन्त्रयामः परंतप
नाध्यवास्यद्यदा कश्चित्सागरस्य विलङ्घनम्। ततः पितरमाविश्य पुप्लुवेऽहंमहार्णवम्। शतयोजनविस्तीर्णं निहत्य जलराक्षसीम्