तस्यां जातासि सा कन्या राज्ञो वीर्येण चैवहि। तस्माद्वासवि भद्रं ते याचे वंशकरं सुतम्
संगमं मम कल्याणि कुरुष्वेत्यभ्यभाषत
विस्मयाविष्टसर्वाङ्गी जातिस्मरणतां गता। साब्रवीत्पश्य भगवन्परपारे स्थितानृषीन्
आवयोर्दृष्टयोरेभिः कथं नु स्यात्समागमः। एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः
येन देशः स सर्वस्तु तमोभूत इवाभवत्। दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा
विस्मिता साभवत्कन्या व्रीडिता च तपस्विनी
त्वत्संयोगाच्च दुष्येत कन्याभावो ममाऽनघ। कन्यात्वे दूषिते वापि कथं शक्ष्ये द्विजोत्तम
गृह गन्तुमुषे चाहं धीमन्न स्थातुमुत्सहे। एतत्संचिन्त्य भगवन्विधत्स्व यदनन्तरम्
एवमुक्तवतीं तीं तु प्रीतिमानुषिसत्तमः। उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यति
वृणीष्व च वरं भीरुं यं त्वमिच्छसि भामिनि। वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते
एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम्। सचास्यै भगवान्प्रादान्मनः काङ्क्षितं प्रभुः
ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता। जगाम सह संसर्गमृषिणाऽद्भुतकर्मणा
तस्यास्तु योजनाद्गन्धमाजिघ्रन्त नरा भुवि
तस्या योजनगन्धेति ततो नामापरं स्मृतम्। इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम्
पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा। जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान्
स मातरमनुज्ञाप्य तपस्येव मनो दधे। स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत्
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात्। न्यस्तोद्वीपे यद्बालस्तस्माद्द्वैपायनःस्मृतः
पादापसारिणं धर्मं स तु विद्वान्युगे युगे। आयुः शक्तिं च मर्त्यानां युगावस्थामवेक्ष्यच
ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाङ्क्षया। विव्यास वेदान्यस्मत्स तस्माद्व्यास इति स्मृतः
वेदानध्यापयामास महाभारतपञ्चमान्। सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम्
प्रभुर्वरिष्ठो वरदो वैशंपायनमेव च। संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः
तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः। वसुवीर्यात्समभवन्महावीर्यो महायशाः
वैदार्थविच्च भगवानृषिर्विप्रो महायशाः। शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया
अणीमाण्डव्य इत्येवं विख्यातः स महायशाः। स धर्ममाहूय पुरा महर्षिरिदमुक्तवान्
इषीकया मया बाल्याद्विद्धा ह्येका शकुन्तिका। तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे
तन्मे सहस्रममितं कस्मान्नेहाजयत्तपः। गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः
तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि
विद्वान्विदुररूपेण धार्मिकः किल्बिषात्ततः। संजयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात्
सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महाबलः। सहजं कवचं बिभ्रत्कुण्डलोद्योतिताननः
अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः। वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः