राक्षसीभिः परिवृतावैदेही शोककशिंता। सेव्यमाना त्रिजटया तत्रैव न्यवसत्तदा
राघवः सहसौमित्रिः सुग्रीवेणाभिपालितः। वसनमाल्यवतः पृष्ठे ददर्श विमलं नभः
सदृष्ट्वाविमले व्योम्नि निर्मलं शसलक्षणम्। ग्रहनक्षत्रताराभिरनुयान्तममित्रहा
कुमुदोत्पलपद्मानां गन्धमादाय वायुना। महीधरस्थः शीतेन सहसाप्रतिबोधितः
प्रभाते लक्ष्मणं वीरमभ्यभाषत दुर्मनाः। सीतां संस्मृत् यधर्मात्मा रुद्धां राक्षसवेश्मनि
गच्छ लक्ष्मण जानीहि किष्किंदायां कपीश्वरम्। प्रमत्तं ग्राम्यधर्मेषु कृतघ्नं स्वार्थपण्डितम्
योसौ कुलाधमो मूढो मया राज्येऽभिषेचितः। सर्ववानरगोपुच्छा यमृक्षाश्च भजन्ति वै
यदर्थं निहतो बाली मया रघुकुलोद्वह। त्वया सहमहाबाहो किष्किन्धोपवने तदा
कृतघ्नं तमहं मन्ये वानरापशदं भुवि। यो मामेवंगतो मूढो न जानीतेऽद्य लक्ष्मण
असौ मन्ये न जानीते समयप्रतिपालनम्। कृतोपकारं मां नूनमवमत्याल्पया धिया
यदितावदनुद्युक्तः शेते कामसुखात्मकः। नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया
अथापि घटतेऽस्माकमर्ते वानरपुङ्गवः। तमादायैव काकुत्स्थ त्वरावान्भव माचिरम्
इत्युक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः। प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः
किष्किन्धाद्वारमासाद्यप्रविवेशानिवारितः। सक्रोध इतितं मत्वाराजा प्रत्युद्ययौ हरिः
तं सदारोविनीतात्मा सुग्रीवः प्लवगाधिपः। पूजया प्रतिजग्राह प्रीयमाणस्तदर्हया
तमब्रवीद्रामवचः सौमित्रिरकुतोभयः। स तत्सर्वमशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः
सभृत्यदारो राजेन्द्रसुग्रीवो वानराधिपः। इदमाह वचः प्रीतो लक्ष्मणं नरकुञ्जरम्
नास्मि लक्ष्मण दुर्मेधा नाकृतज्ञो न निर्घृणः। श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः
दिशः प्रस्थापिताः सर्वेविनीता हरयो मया। सर्वेषां च कृतः कालो मासेऽभ्यागमने पुनः
यैरियं सवना साद्रिः सपुरा सागराम्बरा। विचेतव्या मही वीर सग्रामनगराकरा
स मासः पञ्चरात्रेण पूर्णो भवितुमर्हति। ततः श्रोष्यसि रामेण सहितः सुमहत्प्रियम्
इत्युक्तो लक्ष्मणत्तेन कवानरेनद्रेण धीमता। त्यक्त्वारोषमदीनात्मा सुग्रीवं प्रत्यपूजयत्
सरामं सहसुग्रीवो माल्यवत्पुष्ठमास्थितम्। भिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत्
इत्येवंवानरेनद्रास्ते समाजन्मुः सहस्रशः। दिशस्तिस्रो विचित्याथ न तु ये दक्षिणां गताः
आचख्युस्तत्र रामाय महीं सागरमेखलाम्। विचितां न तु वैदेह्या दर्शनं रावणस् वा
गतास्तु दक्षिणामाशां ये वै वानरपुङ्गवाः। आशावांस्तेषु काकुत्स्थः प्राणानार्तोऽभ्यधारयत्
द्विमासोपरमे काले व्यतीते प्लवगास्ततः। सुग्रीवमभिगम्येदं त्वरिता वाक्यमब्रुवन्
रक्षितंवालिना यत्तत्स्फीतं मधुवनं महत्। त्वया च प्लवगश्रेष्ठ तद्भुङ्क्ते पवनात्मजः
वालिपुत्रोऽङ्गदश्चैव ये चान्ये प्लवगर्षभाः। विचेतुं दक्षिणामाशां राजन्प्रस्थापितास्त्वया
तेषामपनयं श्रुत्वा मेने सकृतकृत्यताम्। कृतार्थानां हि भृत्यानामेतद्भवति चेष्टितम्