सन्ति मे देवक्न्याश्च गन्धर्वाणआं च योषितः। सन्ति दानवन्याश् दैत्यानां चापि योषितः। `तासामद्यविशालाक्षि सर्वासां मे भवोत्तमा
चतुर्दश पिशाचीनां कोट्यो मे वचने स्थिताः। द्विस्तावत्पुरुषादानां रक्षसां भीमकर्मणाम्
ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः। केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः
गन्दर्वाप्सरसो भद्रे मामापानगतं सदा। उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम
पुत्रोऽहमपि विप्रर्षेः साक्षाद्विश्रवसो मुनेः। पञ्चमो लोकपालानामिति मे प्रथितं यशः
दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च। यथैव त्रिदशेशस्यतथैव मम भामिनि
क्षीयतां दुष्कृतं कर्म वनवासकृतं तव। भार्या मे भवसुश्रोणि यथा मण्डोदरीतथा
इत्युक्ता तेन वैदेही परिवृत्य सुभानना। तृणमनतरतः कृत्वातमुवाच निशाचरम्
अशिवेनातिवामोरूरजस्रं नेत्रवारिणा। स्तनावपतितौ बाला संहतावभिवर्षती
व्यवस्थाप्यकथंचित्सा विषादादतिमोहिता'। उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता
असकृद्वदतो वाक्यमीदृशं राक्षसेश्वर। विषादयुक्तमेतत्ते मया श्रुतमभाग्यया। तद्भद्रमुख भद्रं ते मानसं विनिवर्त्यताम्
परदाराऽस्म्यलभ्या च सततं च पतिव्रता। न चैवौपयिकी भार्य मानुषी तव राक्षस
विवशां धर्षयित्वच कां त्वं प्रीतिमवाप्स्यसि। न च पालयसे धर्मं लोकपालसमः कथम्
भ्रातरं राजराजं तं महेश्वरसस्वं प्रभुम्। धनेश्वरं व्यपदिशन्कथं त्विह न लज्जसे
इत्युक्त्वा प्रारुदत्सीता कम्पयन्ती पयोधरौ। शिरोधरां च तन्वङ्गी मुस्वं प्रच्छाद्यवाससा
तस्य रुदत्या भामित्या दीर्घा वेणी सुसयता। ददृशे स्वसिता स्निग्धा काली व्यालीव मूर्धनि
श्रुत्वा तद्रावणो वाक्यं सीतयोक्तं सुनिषुरम्। प्रत्याख्यातोऽपिदुर्मेधाः पुनरेवाब्रवीद्वचः
काममङ्गनि मे सीते दुनोतु मकरध्वजः। नत्वामकामां सुश्रोणीं समेप्ये चारुहासिनीं
किंनु शक्यं मया कर्तुं यत्त्वमद्यापिमानुषम्। आहारभूतमस्माकं राममेवानुरुध्यसे
इत्युक्त्वा तामनिन्द्याङ्गीं स राक्षसमहेश्वरः। तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम्
राक्षसीभिः परिवृतावैदेही शोककशिंता। सेव्यमाना त्रिजटया तत्रैव न्यवसत्तदा
राघवः सहसौमित्रिः सुग्रीवेणाभिपालितः। वसनमाल्यवतः पृष्ठे ददर्श विमलं नभः
सदृष्ट्वाविमले व्योम्नि निर्मलं शसलक्षणम्। ग्रहनक्षत्रताराभिरनुयान्तममित्रहा
कुमुदोत्पलपद्मानां गन्धमादाय वायुना। महीधरस्थः शीतेन सहसाप्रतिबोधितः
प्रभाते लक्ष्मणं वीरमभ्यभाषत दुर्मनाः। सीतां संस्मृत् यधर्मात्मा रुद्धां राक्षसवेश्मनि
गच्छ लक्ष्मण जानीहि किष्किंदायां कपीश्वरम्। प्रमत्तं ग्राम्यधर्मेषु कृतघ्नं स्वार्थपण्डितम्
योसौ कुलाधमो मूढो मया राज्येऽभिषेचितः। सर्ववानरगोपुच्छा यमृक्षाश्च भजन्ति वै
यदर्थं निहतो बाली मया रघुकुलोद्वह। त्वया सहमहाबाहो किष्किन्धोपवने तदा
कृतघ्नं तमहं मन्ये वानरापशदं भुवि। यो मामेवंगतो मूढो न जानीतेऽद्य लक्ष्मण
असौ मन्ये न जानीते समयप्रतिपालनम्। कृतोपकारं मां नूनमवमत्याल्पया धिया