सीते राक्षसराजोऽहंरावणो नाम विश्रुतः। मम लङ्कापुरी नाम्ना रम्या पारे महोदधेः
तत्र त्वं नरनारीषु शोभिष्यसि मया सह। भार्या मे भव सुश्रोणि तापसं त्यज राघवम्
एवमादीनि वाक्यानि श्रुत्वा तस्याथ जानकी। पिधाय कर्णौ सुश्रोणी मैवमित्यब्रवीद्वचः
प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत्। `शुष्येत्तोयनिधौ तोयं चन्द्रः शीतांशुतां त्यजेत्
उष्णांशुत्वमथो जह्यादादित्यो वह्निरुष्णताम्'। त्यक्त्वाशैत्यं भजेन्नाहं त्यजेयंरघुनन्दनम्
कथं हि भिन्नकरटं पद्मिनं वनगोचरम्। उपस्थाय महानागं करेणुः सूकरं स्पृशेत्
कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम्। लोभं सौवीरके कुर्यान्नारी काचिदिति स्मरेः
इति सा तं समाभाष्य प्रविवेशाश्रमं ततः। क्रोधात्प्रस्फुरमाणौष्ठी विधुन्वाना करौ मुहुः
तामधिद्रुत्य सुश्रोणीं रावणः प्रत्यषेधयत्
भर्त्सयित्वातु रूक्षेण स्वरेण गतचेतनाम्। मूर्धजेषु निजग्राह ऊर्ध्वमाचक्रमे ततः
तां ददर्श ततो गृध्रो जटायुर्गिरिगोचरः। रुदतीं रामरामेति हियमाणां तपस्विनीम्
ततस्तां भर्तृशोकार्तां दीनां मलिनवाससम्। मणिशेषाभ्यलंकारां रुदतीं च पतिव्रताम्
राक्षसीभिरुपास्यन्तीं समासीनां शिलातले। रावणःकामबाणार्तो ददर्शोपससर्प च
देवदानवगन्धर्वयक्षकिंपुरुषैर्युधि। अजितोशोकवनिकां ययौ कन्दर्पपीडितः
दिव्याम्बरधरः श्रीमन्सुमृष्टमणिकुण्डलः। विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान्
न कल्पवृक्षसदृशोयत्नादपि विभूषितः। श्मशानचैत्यद्रुमवद्भूषितोऽपि भयंकरः
स तस्यास्तनुमध्यायाः समीपे रजनीचरः। ददृशे रोहिणीमेत्य शनैश्चर इव ग्रैहः
स तामामन्त्र्य सुश्रोणीं पुष्पकेतुशराहतः। इदमित्यब्रवीद्वाक्यं त्रस्तां रौहीमिवाबलाम्
सीते पर्याप्तमेतावत्कृतोभर्तुरनुग्रहः। प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते
भजस्वमां वरारोहे महार्हाभरणाम्बरा। भवमे सर्वनारीणामुत्तमा वरवर्णिनी
सन्ति मे देवक्न्याश्च गन्धर्वाणआं च योषितः। सन्ति दानवन्याश् दैत्यानां चापि योषितः। `तासामद्यविशालाक्षि सर्वासां मे भवोत्तमा
चतुर्दश पिशाचीनां कोट्यो मे वचने स्थिताः। द्विस्तावत्पुरुषादानां रक्षसां भीमकर्मणाम्
ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः। केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः
गन्दर्वाप्सरसो भद्रे मामापानगतं सदा। उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम
पुत्रोऽहमपि विप्रर्षेः साक्षाद्विश्रवसो मुनेः। पञ्चमो लोकपालानामिति मे प्रथितं यशः
दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च। यथैव त्रिदशेशस्यतथैव मम भामिनि
क्षीयतां दुष्कृतं कर्म वनवासकृतं तव। भार्या मे भवसुश्रोणि यथा मण्डोदरीतथा
इत्युक्ता तेन वैदेही परिवृत्य सुभानना। तृणमनतरतः कृत्वातमुवाच निशाचरम्
अशिवेनातिवामोरूरजस्रं नेत्रवारिणा। स्तनावपतितौ बाला संहतावभिवर्षती
व्यवस्थाप्यकथंचित्सा विषादादतिमोहिता'। उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता