ततस्तस्याश्रमं गत्वारामस्याक्लिष्टकर्मणः। चक्रतुस्तद्यथा सर्वमुभौ यत्पूर्वमन्त्रितम्
रावणस्तु यतिर्भूत्वा मुण्डः कुण्डीत्रिदण्डधृत्। मृगश्चभूत्वामारीचस्तं देशमुपजग्मतुः
दर्शयामास मारीचो वैदेहीं मृगरूपधृत्। चोदयामास तस्यार्थे सा रामं विधिचोदिता
रामस्तस्याः प्रियं कुर्वन्धनुरादाय सत्वरः। रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया
स धन्वी बद्धतूणीरः खङ्गगोधाङ्गुलित्रवान्। अन्वधावन्मृगं रामो रुद्रस्तारामृगं यथा
सोऽन्तर्हितः पुनस्तस्य दर्शनं राक्षसो व्रजन्। चकर्ष महदध्वानं रामस्तं वुबुधे ततः
निशाचरं विदित्वा तं राघवः प्रतिभानवान्। अमोघं शरमादाय जघान मृगरूपिणम्
स रामवाणाभिहतः कृत्वा रामस्वरं तदा। हा सीते लक्ष्मणेत्येवं चुक्रोशार्तस्वरेण ह
शुश्राव तस्य वैदेही ततस्तां करुणां गिरम्। साप्रापतत्ततः सीता तामुवाचाथ लक्ष्मणः
अलं ते शङ्कया भीरु को रामं प्रहरिष्यति। मुहूर्ताद्द्रक्ष्यसे रामं भर्तारं त्वं शुचिस्मितम्
इत्युक्ता सा प्ररुदती पर्यशङ्कत लक्ष्मणम्। हता वै स्त्रीस्वभावेन शुद्धचारित्रभूषणा
सा तं परुषमारब्धा वक्तुं साध्वी पतिव्रता। नैष कामो भवेन्मूढ यं त्वं प्रार्थयसे हृदा
अप्यहंशस्त्रमादाय हन्यामात्मानमात्मना। पतेयं गिरिशृङ्गाद्वा विशेयं वा हुताशनम्
रामं भर्तारमुत्सुज्यन त्वहं त्वां कथञ्चन। निहीनमुपतिष्ठेयं शार्दूली क्रोष्टुकं यथा
एतादृशं वचः श्रुत्वा लक्ष्मणः प्रियराघ्नव। पिधायकर्णौ सद्वृत्तः प्रस्थितो येन राघवः
स रामस्य पदंगृह्य प्रससार धनुर्धरः। अवीक्षमाणो विम्बोष्ठीं प्रययौ लक्ष्मणस्तदा
एतस्मिन्नन्तरे रक्षो रावणः प्रत्यदृश्यत। अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः
यतिवेपप्रतिच्छन्नो जिहीर्षुस्तामनिन्दिताम्। `उपागच्छत्स वैदेहीं रावणः पापनिश्चयः
सा तमालक्ष्यसंप्राप्तं धर्मज्ञा जनकात्मजा। निमन्त्रयामास तदा फलमूलाशनादिभिः
अवमत्यततः सर्वं स्वं रूपं प्रत्यपद्यत। सान्त्वयामास वैदेहीं कामी राक्षसपुङ्गवः
सीते राक्षसराजोऽहंरावणो नाम विश्रुतः। मम लङ्कापुरी नाम्ना रम्या पारे महोदधेः
तत्र त्वं नरनारीषु शोभिष्यसि मया सह। भार्या मे भव सुश्रोणि तापसं त्यज राघवम्
एवमादीनि वाक्यानि श्रुत्वा तस्याथ जानकी। पिधाय कर्णौ सुश्रोणी मैवमित्यब्रवीद्वचः
प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत्। `शुष्येत्तोयनिधौ तोयं चन्द्रः शीतांशुतां त्यजेत्
उष्णांशुत्वमथो जह्यादादित्यो वह्निरुष्णताम्'। त्यक्त्वाशैत्यं भजेन्नाहं त्यजेयंरघुनन्दनम्
कथं हि भिन्नकरटं पद्मिनं वनगोचरम्। उपस्थाय महानागं करेणुः सूकरं स्पृशेत्
कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम्। लोभं सौवीरके कुर्यान्नारी काचिदिति स्मरेः
इति सा तं समाभाष्य प्रविवेशाश्रमं ततः। क्रोधात्प्रस्फुरमाणौष्ठी विधुन्वाना करौ मुहुः
तामधिद्रुत्य सुश्रोणीं रावणः प्रत्यषेधयत्
भर्त्सयित्वातु रूक्षेण स्वरेण गतचेतनाम्। मूर्धजेषु निजग्राह ऊर्ध्वमाचक्रमे ततः