शशंस रावणस्तस्मै तत्सर्वं रामचेष्टितम्। समासेनैव कार्याणि क्रोधामर्षसमन्वितः
मारीचस्त्वब्रवीच्छ्रत्वा समासेनैव रावणम्। अलं ते राममासाद्य वीर्यज्ञो ह्यस्मि तस्य वै
बाणवेगं हि कस्तस्य शक्तः सोढुं महात्मनः। प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः। विनाशमुखमेतत्ते केनाख्यातं दुरात्मना
तमुवाचाथ सक्रोधो रावणः परिभर्त्सयन्। अकुर्वतोऽस्मद्वचनं स्यान्मृत्युरपि ते ध्रुवम्
मरीचश्चिन्तयामास विशिष्टान्मरणं वरम्। अवश्यं मरणे प्राप्ते करिष्याम्यस्य यन्मतम्
ततस्तं प्रत्युवाचाथ मारीचो रक्षसांवरम्। किं ते साह्यां मया कार्यं करिष्याम्यवशोपि तत्
तमब्रवीद्दशग्रीवो गच्छ सीतां प्रलोभय। रत्नशृङ्गो मृगो भूत्वा रत्नचित्रतनूरुहः
ध्रुवं सीता समालक्ष्यत्वां रामं चोदयिष्यति। अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति
तामादायापनेष्यामि ततः स नभविष्यति। भार्यावियोगाद्दुर्बुद्धिरेतत्साह्यं कुरुष्व मे
इत्येवमुक्तोमारीचः कृत्वोदकमथात्मनः। रावणं पुरतो यान्तमन्वगच्छत्सुदुःखितः
ततस्तस्याश्रमं गत्वारामस्याक्लिष्टकर्मणः। चक्रतुस्तद्यथा सर्वमुभौ यत्पूर्वमन्त्रितम्
रावणस्तु यतिर्भूत्वा मुण्डः कुण्डीत्रिदण्डधृत्। मृगश्चभूत्वामारीचस्तं देशमुपजग्मतुः
दर्शयामास मारीचो वैदेहीं मृगरूपधृत्। चोदयामास तस्यार्थे सा रामं विधिचोदिता
रामस्तस्याः प्रियं कुर्वन्धनुरादाय सत्वरः। रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया
स धन्वी बद्धतूणीरः खङ्गगोधाङ्गुलित्रवान्। अन्वधावन्मृगं रामो रुद्रस्तारामृगं यथा
सोऽन्तर्हितः पुनस्तस्य दर्शनं राक्षसो व्रजन्। चकर्ष महदध्वानं रामस्तं वुबुधे ततः
निशाचरं विदित्वा तं राघवः प्रतिभानवान्। अमोघं शरमादाय जघान मृगरूपिणम्
स रामवाणाभिहतः कृत्वा रामस्वरं तदा। हा सीते लक्ष्मणेत्येवं चुक्रोशार्तस्वरेण ह
शुश्राव तस्य वैदेही ततस्तां करुणां गिरम्। साप्रापतत्ततः सीता तामुवाचाथ लक्ष्मणः
अलं ते शङ्कया भीरु को रामं प्रहरिष्यति। मुहूर्ताद्द्रक्ष्यसे रामं भर्तारं त्वं शुचिस्मितम्
इत्युक्ता सा प्ररुदती पर्यशङ्कत लक्ष्मणम्। हता वै स्त्रीस्वभावेन शुद्धचारित्रभूषणा
सा तं परुषमारब्धा वक्तुं साध्वी पतिव्रता। नैष कामो भवेन्मूढ यं त्वं प्रार्थयसे हृदा
अप्यहंशस्त्रमादाय हन्यामात्मानमात्मना। पतेयं गिरिशृङ्गाद्वा विशेयं वा हुताशनम्
रामं भर्तारमुत्सुज्यन त्वहं त्वां कथञ्चन। निहीनमुपतिष्ठेयं शार्दूली क्रोष्टुकं यथा
एतादृशं वचः श्रुत्वा लक्ष्मणः प्रियराघ्नव। पिधायकर्णौ सद्वृत्तः प्रस्थितो येन राघवः
स रामस्य पदंगृह्य प्रससार धनुर्धरः। अवीक्षमाणो विम्बोष्ठीं प्रययौ लक्ष्मणस्तदा
एतस्मिन्नन्तरे रक्षो रावणः प्रत्यदृश्यत। अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः
यतिवेपप्रतिच्छन्नो जिहीर्षुस्तामनिन्दिताम्। `उपागच्छत्स वैदेहीं रावणः पापनिश्चयः
सा तमालक्ष्यसंप्राप्तं धर्मज्ञा जनकात्मजा। निमन्त्रयामास तदा फलमूलाशनादिभिः
अवमत्यततः सर्वं स्वं रूपं प्रत्यपद्यत। सान्त्वयामास वैदेहीं कामी राक्षसपुङ्गवः