कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितः। अग्रे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ
वसिष्ठवामदेवाभ्यां विप्रैश्चान्यैः सहस्रशः। पौरजानपदैः सार्धं रामानयनकाङ्क्षया
ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम्। तापसानामलंकारं धारयन्तं धनुर्धरम्
उवाच प्राञ्जलिर्भूत्वाप्रणिपत्य रघूत्तमम्। शशंस मरणं राज्ञः सोऽनाथांश्चापि कोसलान्
नाथ त्वं प्रतिपद्यस्व स्वराज्यमिति चोक्तवान्
स तस्य वचनं श्रुत्वा रामः परमदुःखितः। चकार देवकल्पस्य पितुः स्नात्वोदकक्रियाम्
अब्रवीत्स तदारामो भ्रातरं भ्रातृवत्सलम्। पादुके मे भविष्येते राज्यगोप्त्र्यौ परंतप। एवमस्त्विति तं प्राह भरतः प्रणतस्तदा
विसर्जितः स रामेण पितुर्वचनकारिणा। नन्दिग्रामेऽकरोद्राज्यं पुरस्कृत्यास्य पादुके
रामस्तु पुनराशङ्क्य पौरजानपदागमम्। प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति
सत्कृत्य शरभङ्गं स दण्डकारण्यमाश्रितः। नदीं गोदावरीं रम्यामाश्रित्य न्यवसत्तदा
वसतस्तस्य रामस्य ततः शूर्पणखाकृतम्। खरेणासीन्महद्वैरं जनस्थाननिवासिना
रक्षार्थं तापसानां तु राघवो धर्मवत्सलः। चतुर्दशसहस्राणि जघान भुवि राक्षसान्
दूषणं च स्वरं चैवनिहत्य सुमहाबलौ। चक्रे क्षेमं पुनर्धीमान्धर्मारण्यं स राघवः
हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः। ययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर्निवेशनम्
ततो रावणमभ्येत्य राक्षसी दुःखमूर्च्छिता। पपात पादयोर्भ्रातुः संशुष्करुधिरानना
तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्च्छितः। उत्पपातासनात्क्रुद्धो दन्तैर्दन्तानुपस्पृशन्
स्वानमात्यान्विसृज्याथ विविक्ते तामुवाच सः। केनास्येवं कृता भद्रे मामचिन्त्यावमत्य च
कः शूलं तीक्ष्णमासाद्य सर्वगात्रेषु सेवते। कः शिरस्यग्निमाधाय विश्वस्तः स्वपते सुखम्
आशीविषं घोरतरं पादेन स्पृशतीह कः। सिंहं केसरिणं मत्तः स्पृष्ट्वा दंष्ट्रासु तिष्ठति
इत्येवं ब्रुवतस्तस्य नेत्रेभ्यस्तेजसोऽर्चिषः। निश्चेरुर्दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः
तस्य तत्सर्वमाचख्यौ भगिनी रामविक्रमम्। खरदूषणसंयुक्तं राक्षसानां पराभवम्
ततो ज्ञातिवधं श्रुत्वा रावणः कालचोदितः। रामस्य वधमाकाङ्क्षन्मारीचं मनसागमत्
स निश्चित्यततः कृत्यं सागरं लवणाकरम्। ऊर्ध्वमाचक्रमे राजा विधाय नगरे विधिम्
त्रिकूटं समतिक्रम्य कालपर्वतमेव च। ददर्श मकरावासं गम्भीरोदं महोदधिम्
तमतीत्याथ गोकर्णमभ्यगच्छद्दशाननः। दयितं स्तानमव्यग्रं शूलपाणेर्महात्मनः
तत्राभ्यगच्छन्मारीचं पूर्वामात्यं दशाननः। पुरा रामभयादेव तापसं प्रियजीवितम्
मारीचस्त्वथ संभ्रान्तो दृष्ट्वा रावणमागतम्। पूजयामास सत्कारैः फलमूलादिभिस्ततः
विश्रान्तं चैनमासीनमन्वासीनः स राक्षसः। उवाच प्रश्रितं वाक्यं वाक्यज्ञो वाक्यकोविदम्
न ते प्रकृतिमान्वर्णः कच्चित्क्षेमं पुरे तव। कच्चित्प्रकृतयः सर्वा भजन्ते त्वां यथा पुरा
किमिहागमने चापि कार्यं ते राक्षसेश्वर। कृतमित्येव तद्विद्धि यद्यपि स्यात्सुदुष्करम्