अभिषेकाय रामस्य यावैराज्येन भारत। प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः
लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम्। कम्बुग्रीवं महोरस्कं नीलकुञ्चितमूर्धजम्
दीप्यमानं श्रिया वीरं शक्रादनवरं बले। पारगं सर्वधर्माणां बृहस्पतिसमं मतौ
सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम्। जितेन्द्रियममित्राणामपि दृष्टिमनोहरम्
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम्। धृतिमन्तमनाधृष्यं जेतारमपराजितम्
पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम्। संदृश्यपरमां प्रीतिमगच्छत्कुलनन्दनम्
चिन्तयंश्च महातेजा गुणान्रामस्य वीर्यवान्। अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम्
अद् पुष्यो निशि ब्रह्मन्पुण्यं योगमुपैष्यति। संभाराः संभ्रियन्तां मे रामश्चोपनिमन्त्र्यताम्
श्व एवपुष्यो भविता यत्ररामः सुतो मया। यौवराज्येऽभिषेक्तव्यः पौरेषु सहमन्त्रिभिः
इति तद्राजवचनं प्रतिश्रुत्याथ मन्थरा। कैकेयीमभिगम्येदं काले वचनमब्रवीत्
अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत्। आशीविषस्त्वां संक्रुद्धश्छन्नो दशति दुर्भगे
सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते। कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक्
सा तद्वचनमाज्ञाय सर्वाभरणभूषिता। वेदी विलग्नमध्येन बिभ्रती रूपमुत्तमम्
वविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता। राजानं तर्जयन्तीव मधुरं वाक्यमब्रवीत्
सत्यप्रतिज्ञ यन्मे त्वं काममेकं विसृष्टवान्। उपाकुरुष्व तद्राजंस्तस्मान्मुञ्चस्व संकटात्। `तदद्य कुरु सत्यं मे वरं वरद भूपते
वरं ददानि ते हन्त तद्गृहाण यदिच्छसि। अवध्यो वध्यतां कोद्य वध्यः कोऽद्य विमुच्यतां
धनं ददानि कस्याद् ह्रियतां कस्यरवापुनः। ब्राह्मणस्वादिहान्यत्रयत्किंचिद्वित्तमस्ति मे
पृथिव्यां राजराजोस्मि चातुर्वर्ण्यस् रिता। यस्तेऽभिलपितः कामो ब्रूहि कल्याणि माचिरं
सातद्वचनमाज्ञाय परिगृह्य नराधिपम्। आत्मनो बलमाज्ञाय तत एनमुवाच ह
आभिषेचनिकं यत्ते रामार्थमुपकल्पितम्। भरतस्तदवाप्नोतु वनं गच्छतु राघवः
नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः। चीराजिनजटाधारी रामो भवतु तापसः
स तं राजा वरं श्रुत्वा विप्रियं दारुणोदयम्। दुःखार्तो भरतश्रेष्ठ न किंचिद्व्याजहार ह
ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान्। वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति
तमन्वगच्छल्लक्ष्मीवान्धनुष्माँल्लक्ष्मणस्तदा। सीता च भार्या भद्रं ते वैदेही जनकात्मजा
ततो वनं गतेरामे राजा दशरथस्तदा। समयुज्यत देहस्य कालपर्यायधर्मणा
रामं तु गतमाज्ञाय राजानं च तथागतम्। अनार्या भरतं देवी कैकेयी वाक्यमब्रवीत्
गतोदशरथः स्वर्गं वनस्थौ रामलक्ष्मणौ। गृहाण राज्यंविपुलं क्षेमं निहतकण्टकम्
तामुवाच स धर्मात्मा नृशंसं बत ते कृतम्। पतिं हत्वाकुलं चेदमुत्साद्य धनलुब्धया
अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसने। सकामा भव मे मातरित्युक्त्वा प्ररुरोद ह
स चारित्रं विशोध्याथ सर्वप्रकृतिसन्निधौ। अन्वयाद्धातरं रामं विनिवर्तनलालसः