नागायुतसमप्राणा वायुवेगसमा जवे। यथेच्छविनिपाताश्च केचिदत्र वनौकसः
एवं विधाय तत्सर्वं भगवाँल्लोकभावनः। मन्थरां बोधयामास यद्यत्कार्यं त्वया तथा
सा तद्वच समाज्ञाय तथा चक्रे मनोजवा। इतश्चेतश्च गच्छन्ती वैरसंधुक्षणे रता
उक्तं भगवता जन्म रामादीनां पृथक्पृथक्। प्रस्थानकारणं ब्रह्मञ्श्रोतुमिच्छामि कथ्यताम्
कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ। प्रस्तापितौ वने ब्रह्मन्मैथिली च यशस्विनी
जातपुत्रो दशरथः प्रीतिमानभवन्नृप। क्रियारतिर्धर्मरतः सततं वृद्धसेविता
क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः। वेदेषु सरहस्येषु धनुर्वेदेषु पारगाः
चरितब्रह्मचर्यास्ते कृतदाराश्च पार्तिव। दृष्ट्वा रामं दशरथः प्रीतिमानभवत्सुखी
ज्येष्ठो रामोऽभवत्तेषां रमयामास हि प्रजाः। मनोहरतया धीमान्पितुर्हृदयनन्दनः
ततः स राजा मतिमान्मत्वाऽऽत्मानं वयोधिकम्। मन्त्रयामास सचिवैर्मन्त्रज्ञैश्च पुरोहितैः
अभिषेकाय रामस्य यावैराज्येन भारत। प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः
लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम्। कम्बुग्रीवं महोरस्कं नीलकुञ्चितमूर्धजम्
दीप्यमानं श्रिया वीरं शक्रादनवरं बले। पारगं सर्वधर्माणां बृहस्पतिसमं मतौ
सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम्। जितेन्द्रियममित्राणामपि दृष्टिमनोहरम्
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम्। धृतिमन्तमनाधृष्यं जेतारमपराजितम्
पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम्। संदृश्यपरमां प्रीतिमगच्छत्कुलनन्दनम्
चिन्तयंश्च महातेजा गुणान्रामस्य वीर्यवान्। अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम्
अद् पुष्यो निशि ब्रह्मन्पुण्यं योगमुपैष्यति। संभाराः संभ्रियन्तां मे रामश्चोपनिमन्त्र्यताम्
श्व एवपुष्यो भविता यत्ररामः सुतो मया। यौवराज्येऽभिषेक्तव्यः पौरेषु सहमन्त्रिभिः
इति तद्राजवचनं प्रतिश्रुत्याथ मन्थरा। कैकेयीमभिगम्येदं काले वचनमब्रवीत्
अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत्। आशीविषस्त्वां संक्रुद्धश्छन्नो दशति दुर्भगे
सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते। कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक्
सा तद्वचनमाज्ञाय सर्वाभरणभूषिता। वेदी विलग्नमध्येन बिभ्रती रूपमुत्तमम्
वविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता। राजानं तर्जयन्तीव मधुरं वाक्यमब्रवीत्
सत्यप्रतिज्ञ यन्मे त्वं काममेकं विसृष्टवान्। उपाकुरुष्व तद्राजंस्तस्मान्मुञ्चस्व संकटात्। `तदद्य कुरु सत्यं मे वरं वरद भूपते
वरं ददानि ते हन्त तद्गृहाण यदिच्छसि। अवध्यो वध्यतां कोद्य वध्यः कोऽद्य विमुच्यतां
धनं ददानि कस्याद् ह्रियतां कस्यरवापुनः। ब्राह्मणस्वादिहान्यत्रयत्किंचिद्वित्तमस्ति मे
पृथिव्यां राजराजोस्मि चातुर्वर्ण्यस् रिता। यस्तेऽभिलपितः कामो ब्रूहि कल्याणि माचिरं
सातद्वचनमाज्ञाय परिगृह्य नराधिपम्। आत्मनो बलमाज्ञाय तत एनमुवाच ह
आभिषेचनिकं यत्ते रामार्थमुपकल्पितम्। भरतस्तदवाप्नोतु वनं गच्छतु राघवः