तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः। सैनापत्यं ददौ धीमान्यक्षराक्षससेनयोः
राक्षसाः पुरुषादाश्च पिशाचाश्च महाबलाः। सर्वे समेत्य राजानमभ्यषिञ्चन्दशाननम्
दशग्रीवश्चदैत्यानां दानवानां बलोत्कटः। आक्रम्य रत्नान्यहरत्कामरूपी विहंगम
रावयामास लोकान्यत्तस्माद्रावण उच्यते। दशग्रीवः कामबलो देवानां भयमादधत्
ततो ब्रह्मर्षयः सर्वे सिद्धा देवर्षयस्तथा। हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः
योसौ विश्रवसः पुत्रो दशग्रीवो महाबलः। अवध्यो वरदानेन कृतो भगवता पुरा
स बाधते प्रजाः सर्वा विप्रकारैर्महाबलः। ततो नस्त्रातु भगवान्नान्यस्त्राता हि विद्यते
न स देवासुरैः शक्यो युद्धे जेतुं विभावसो। विहितं तत्रयत्कार्यमभितस्तस्य निग्रहः
तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः। विष्णुः प्रहरतां श्रेष्ठः स तत्कर्म करिष्यति
पितामहस्ततस्तेषां संनिधौ शक्रमब्रवीत्। सर्वैर्देवगणैः सार्धं संभव त्वं महीतले
विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः। जनयध्वं सुतान्वीरान्कामरूपबलान्वितान्
ते यथोक्ता भगवता तत्प्रतिश्रुत्य शासनम्। ससृजुर्देवगन्धर्वाः पुत्रान्वानररूपिणः
ततो भागानुभागेन देवगन्धर्वदानवाः। अवतर्तुं महीं सर्वे मन्त्रयामासुरञ्जसा
अवतेरुर्महीं स्वर्गादंशैश्च सहिताः सुराः। ऋषयश्च महात्मानः सिद्धाश्च सह किन्नरैः। चारणाश्चासृजन्घोरान्वानरान्वनचारिणः
यस्य देवस्य यद्रूपं वेषस्तेजश्च यद्विधम्। अजायन्त समास्तेन तस्य तस्य सुतास्तदा
तेषां समक्षं गन्धर्वी दुन्दुभीं नाम नामतः। शशास वरदो देवो गच्छ कार्यार्थसिद्धये
पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः। मन्थरा मानुषे लोके कुब्जा समभवत्तदा
शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः। वानरर्क्षवरस्त्रीषु जनयामासुरात्मजान्
तेऽन्ववर्तन्पितॄन्सर्वे यशसा च बलेन च। भेत्तारो गिरिशृङ्गाणां सालतालशिलायुधाः
वज्चसंहननाः सर्वेसर्वेऽमोघवलास्तथा। कामवीर्यबलाश्चैवसर्वे बुद्धिविशारदाः
नागायुतसमप्राणा वायुवेगसमा जवे। यथेच्छविनिपाताश्च केचिदत्र वनौकसः
एवं विधाय तत्सर्वं भगवाँल्लोकभावनः। मन्थरां बोधयामास यद्यत्कार्यं त्वया तथा
सा तद्वच समाज्ञाय तथा चक्रे मनोजवा। इतश्चेतश्च गच्छन्ती वैरसंधुक्षणे रता
उक्तं भगवता जन्म रामादीनां पृथक्पृथक्। प्रस्थानकारणं ब्रह्मञ्श्रोतुमिच्छामि कथ्यताम्
कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ। प्रस्तापितौ वने ब्रह्मन्मैथिली च यशस्विनी
जातपुत्रो दशरथः प्रीतिमानभवन्नृप। क्रियारतिर्धर्मरतः सततं वृद्धसेविता
क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः। वेदेषु सरहस्येषु धनुर्वेदेषु पारगाः
चरितब्रह्मचर्यास्ते कृतदाराश्च पार्तिव। दृष्ट्वा रामं दशरथः प्रीतिमानभवत्सुखी
ज्येष्ठो रामोऽभवत्तेषां रमयामास हि प्रजाः। मनोहरतया धीमान्पितुर्हृदयनन्दनः
ततः स राजा मतिमान्मत्वाऽऽत्मानं वयोधिकम्। मन्त्रयामास सचिवैर्मन्त्रज्ञैश्च पुरोहितैः