एवमुक्तो दशग्रीवस्तुष्टः समभवत्तदा। अवमेने हि दुर्बुद्धिर्मनुष्यान्पुरुषादकः
कुम्भकर्णमथोवाच तथैव प्रपितामहः। `वरं वृणीष्व भद्रं ते प्रीतोस्मीति पुनःपुनः'। स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः
तथाभविष्यतीत्युक्त्वा विभीषणमुवाच ह। वरं वृणीष्व पुत्र त्वं प्रीतोऽस्मीति पुनःपुनः
परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत्। अशिक्षितं च भगवन्ब्रह्मास्त्रं प्रतिभातु मे
यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्शन। नाधर्मे धीयते बुद्धिरमरत्वं ददानि ते
राक्षसस्तु वरंलब्ध्वा दशग्रीवो विशांपते। लङ्कायाश्च्यावयामास युधि जित्वा धनेश्वरम्
हित्वास भगवाँल्लङ्कामाविशद्गन्धमादनम्। गन्धर्वयक्षानुगतो रक्षःकिंपुरुषैः सह
विमानं पुष्पकं तस्य जहाराक्रम्य रावणः। शशाप तं वैश्रवणो न त्वामेतद्वहिष्यति
यस्तु त्वां समरे हन्ता तमेवैतद्वहिष्यति। अवमत्य गुरुं मां च क्षिप्रं त्वंनभविष्यसि
विभीषणस्तु धर्मात्मा सतां मार्गमनुस्मरन्। अन्वगच्छन्महाराज श्रिया परमया युतः
तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः। सैनापत्यं ददौ धीमान्यक्षराक्षससेनयोः
राक्षसाः पुरुषादाश्च पिशाचाश्च महाबलाः। सर्वे समेत्य राजानमभ्यषिञ्चन्दशाननम्
दशग्रीवश्चदैत्यानां दानवानां बलोत्कटः। आक्रम्य रत्नान्यहरत्कामरूपी विहंगम
रावयामास लोकान्यत्तस्माद्रावण उच्यते। दशग्रीवः कामबलो देवानां भयमादधत्
ततो ब्रह्मर्षयः सर्वे सिद्धा देवर्षयस्तथा। हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः
योसौ विश्रवसः पुत्रो दशग्रीवो महाबलः। अवध्यो वरदानेन कृतो भगवता पुरा
स बाधते प्रजाः सर्वा विप्रकारैर्महाबलः। ततो नस्त्रातु भगवान्नान्यस्त्राता हि विद्यते
न स देवासुरैः शक्यो युद्धे जेतुं विभावसो। विहितं तत्रयत्कार्यमभितस्तस्य निग्रहः
तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः। विष्णुः प्रहरतां श्रेष्ठः स तत्कर्म करिष्यति
पितामहस्ततस्तेषां संनिधौ शक्रमब्रवीत्। सर्वैर्देवगणैः सार्धं संभव त्वं महीतले
विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः। जनयध्वं सुतान्वीरान्कामरूपबलान्वितान्
ते यथोक्ता भगवता तत्प्रतिश्रुत्य शासनम्। ससृजुर्देवगन्धर्वाः पुत्रान्वानररूपिणः
ततो भागानुभागेन देवगन्धर्वदानवाः। अवतर्तुं महीं सर्वे मन्त्रयामासुरञ्जसा
अवतेरुर्महीं स्वर्गादंशैश्च सहिताः सुराः। ऋषयश्च महात्मानः सिद्धाश्च सह किन्नरैः। चारणाश्चासृजन्घोरान्वानरान्वनचारिणः
यस्य देवस्य यद्रूपं वेषस्तेजश्च यद्विधम्। अजायन्त समास्तेन तस्य तस्य सुतास्तदा
तेषां समक्षं गन्धर्वी दुन्दुभीं नाम नामतः। शशास वरदो देवो गच्छ कार्यार्थसिद्धये
पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः। मन्थरा मानुषे लोके कुब्जा समभवत्तदा
शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः। वानरर्क्षवरस्त्रीषु जनयामासुरात्मजान्
तेऽन्ववर्तन्पितॄन्सर्वे यशसा च बलेन च। भेत्तारो गिरिशृङ्गाणां सालतालशिलायुधाः
वज्चसंहननाः सर्वेसर्वेऽमोघवलास्तथा। कामवीर्यबलाश्चैवसर्वे बुद्धिविशारदाः