दिव्यज्ञानेन दृष्टं हि दृष्टमात्रेण ते वपुः
प्रणयग्रहणार्थाय वक्ष्येव वासवि तच्छृणु। बर्हिषद इति ख्याताः पितरः सोमपास्तुते
तेषां त्वं मानसी कन्या अच्छोदा नाम विश्रुता। अच्छोदं नाम तद्दिव्यं सरो यस्मात्समुत्थितम्
त्वया न दृष्टपूर्वास्तु पितरस्ते कदाचन। संभूता मनसा तेषां पितॄन्स्वान्नाभिजानती
सा त्वन्यं पितरं वव्रे स्वानतिक्रम्य तान्पितॄन्। नाम्ना वसुरिति ख्यातं मनुपुत्रं दिवि स्थितम्
अद्रिकाऽप्सरसा युक्तं विमाने दिवि विष्ठितम्। सा तेन व्यभिचारेण मनसा कामचारिणी
पितरं प्रार्थयित्वाऽन्यं योगाद्भष्टा पपात सा। अपश्यत्पतमाना सा विमानत्रयमन्तिकात्
त्रसरेणुप्रमाणांस्तांस्तत्रापश्यत्स्वकान्पितॄन्। सुसूक्ष्मानपरिव्यक्तानङ्गैरङ्गेष्विवाहितान्
तातेति तानुवाचार्ता पतन्ती सा ह्यधोमुखी। तैरुक्ता सा तु माभैषीस्तेन सा संस्थिता दिवि
ततः प्रसादयामास स्वान्पितॄन्दीनया गिरा। तामूचुः पितरः कन्यां भ्रैष्टश्वर्यां व्यतिक्रमात्
भ्रष्टैश्वर्या स्वदोषेण पतसि त्वं शुचिस्मिते। यैरारभन्ते कर्माणि शरीरैरिह देवताः
तैरेव तत्कर्मफलं प्राप्नुवन्ति स्म देवताः। मनुष्यास्त्वन्यदेहेन शुभाशुभमिति स्थितिः
सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे। तस्मात्त्वं पतसे पुत्रि प्रेत्यत्वं प्राप्स्यसे फलम्
पितृहीना तु कन्या त्वं वसोर्हि त्वं सुता मता। मत्स्ययोनौ समुत्पन्ना सुताराज्ञो भविष्यसि
अद्रिका मत्स्यरूपाऽभूद्गङ्गायमनुसङ्गमे। पराशरस्य दायादं त्वं पुत्रं जनयिष्यसि
यो वेदमेकं ब्रह्मर्षिश्चतुर्धा विबजिष्यति। महाभिषक्सुतस्यैव शन्तनोः कीर्तिवर्धनम्
ज्येष्ठं चित्राङ्गदं वीरं चित्रवीरं च विश्रुतम्। एतान्सूत्वा सुपुत्रांस्त्वं पुनरेव गमिष्यसि
व्यतिक्रमात्पितॄणां च प्राप्स्यसे जन्म कुत्सितम्। अस्यैव राज्ञस्त्वं कन्या ह्यद्रिकायां भविष्यसि
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा। एवमुक्ता पुरा तैस्त्वं जाता सत्यवती शुभा
अद्रिकेत्यभिविख्याता ब्रह्मशापाद्वराप्सरा। मीनभावमनुप्राप्ता त्वं जनित्वा गता दिवम्
तस्यां जातासि सा कन्या राज्ञो वीर्येण चैवहि। तस्माद्वासवि भद्रं ते याचे वंशकरं सुतम्
संगमं मम कल्याणि कुरुष्वेत्यभ्यभाषत
विस्मयाविष्टसर्वाङ्गी जातिस्मरणतां गता। साब्रवीत्पश्य भगवन्परपारे स्थितानृषीन्
आवयोर्दृष्टयोरेभिः कथं नु स्यात्समागमः। एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः
येन देशः स सर्वस्तु तमोभूत इवाभवत्। दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा
विस्मिता साभवत्कन्या व्रीडिता च तपस्विनी
त्वत्संयोगाच्च दुष्येत कन्याभावो ममाऽनघ। कन्यात्वे दूषिते वापि कथं शक्ष्ये द्विजोत्तम
गृह गन्तुमुषे चाहं धीमन्न स्थातुमुत्सहे। एतत्संचिन्त्य भगवन्विधत्स्व यदनन्तरम्
एवमुक्तवतीं तीं तु प्रीतिमानुषिसत्तमः। उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यति
वृणीष्व च वरं भीरुं यं त्वमिच्छसि भामिनि। वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते