स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः। प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै
पितामहस्तुप्रीतात्मा ददौ वैश्रवणस् ह। अमरत्वं धनेशत्वं लोकपालत्वमेव च
ईशानन तथा सख्यं पुत्रं च नलकूवरम्। राजधानीनिवेसं च लङ्कांरक्षोगणान्विताम्
विमानं पुष्पकं नाम कामगं च ददौ प्रभुः। यक्षाणामाधिपत्यंच राजराजत्वमेव च
पुलस्त्यस् तु यः क्रोधादर्धदेहोऽभवन्मुनिः। विश्रवानाम सक्रोधं पितरं राक्षसेश्वरः
बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः। कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप
स राजराजो लङ्कायां न्यवसन्नरवाहनः। राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः
ताः सदा तं महात्मानं संतोषयितुमुद्यताः। ऋषिं भरतशार्दूल नृत्यगीतविशारदाः
पुष्पोत्कटा च राका च मालिनी च विशांपते। अन्योन्यस्पर्धयाराजञ्श्रेयस्कामाः सुमध्यमाः
स तासां भगवांस्तुष्टो महात्मा प्रददौ वरान्। लोकपालोपमान्पुत्रानकैकस्या यथेप्सितान्
पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ। कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि
मालिन जनयामास पुत्रमेकं विभीषणम्। राकार्या मिथुनं जज्ञे खरः शूर्पणखा तथा
विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत्। स बभूव महाभागो धर्मगोप्ता क्रियारतिः
दशग्रीवस्तु सर्वेषां श्रेष्ठो राक्षसपुङ्गवः। महोत्साहो महावीर्यो महासत्वपराक्रमः
कुम्भकर्णओ बलेनासीत्सर्वेभ्योऽभ्यधिको युधि। मायावी रणशौण्डश्चरौद्रश्च रजनीचरः
खरो धनुषि विक्रान्तो ब्रह्मद्विट् पिशिताशनः। सिद्धविघ्नकरी चापि रौद्री शूर्पणखा तदा
सर्वे वेदविदः शूराः सर्वेसुचरितव्रताः। ऊषुः पित्रा सह रता गन्धमादनपर्वते
ततो वैश्रवणं तत्र ददृशुर्नरवाहनम्। पित्रा सार्धं समासीनमृद्ध्या परमया युतम्
जातामर्षास्ततस्ते तु तपसे धृतनिश्चयाः। ब्रह्माणं तोषयामासुर्घोरेण तपसा तदा
अतिष्ठदेकपादेन सहस्रं परिवत्सरान्। वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः
अधःशायी कुम्भकर्णो यताहारो यतव्रतः। विभीषणः शीर्णपर्णमेकमभ्यवहारयन्
उपवासरतिर्धीमान्सदा जप्यपरायणः। तमेव कालमातिष्ठत्तीव्रं तप उदारधीः
स्वरः शूर्पणखा चैव तेषां वै तप्यतां तपः। परिचर्यां च रक्षां च चक्रतुर्हष्टमानसौ
पूर्णे वर्षसहस्रेतु शिरश्छित्त्वा दशाननः। जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः
ततो ब्रह्मा स्वयं गत्वा तपसस्तान्न्यवारयत्। प्रलोभ्यवरदानेन सर्वानेवपृथक्पृथक्
प्रीतोऽस्मि वो निवर्तध्वं वरान्वृणुत पुत्रकाः। यद्यदिष्टमृते त्वेकममरत्वं तथाऽस्तु तत्
यद्यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया। तथैव तानि ते देहे भविष्यन्ति यथेप्सया
वैरूप्यं च न ते देहे कामरूपधरस्तथा। भविष्यसि रणेऽरीणां विजेता न च संशयः
गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा। सर्पकिंनरभूतेभ्यो न मे भूयात्पराभवः
य एते कीर्तिताः सर्वे न तेभ्योस्ति भयं रतव। ऋते मनुष्याद्भद्रं ते तथा तद्विहितं मया