इत्येवमुक्त्वा नृपतिं सर्वपापहरो हरः। उमापतिः पशुपतिर्यज्ञहा त्रिपुरार्दनः
वामनैर्विकटैः कुब्जैरुग्रश्रवणदर्शनैः। वृतः पारिषदैर्घोरैर्नानाप्रहरणोद्यतैः
त्र्यम्बको राजशार्दूल भगनेत्रनिपातनः। उमासहायो भगवांस्तत्रैवान्तरधीयत
एवमुक्तस्तु नृपतिः स्वमेव भवनं ययौ। पाण्डवाश्च वने तस्मिन्न्यवसन्काम्यके तथा
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम्। अत ऊर्द्वं नरव्याघ्राः किमकुर्वत पाण्डवाः
एवं कृष्णां मोक्षयित्वाविनिर्जित्य जयद्रथम्। आसांचक्रे मुनिगणैर्धर्मराजो युधिष्टिरः
तेषां मध्येमहर्षीणां शृण्वतामनुशोचताम्। मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः
भगवन्देवर्षीणां त्वं ख्यातो भूतभविष्यवित्। संशयं परिपृच्छमि च्छिन्धि मे हृदि संस्थितम्
द्रुपदस्य सुता ह्येषा वेदिमध्यात्समुत्थिता। अयोनिजा महाभागास्नुषा पाण्डोर्महात्मनः
मन्ये कालश्च भगवान्दैवं च दुरतिक्रमम्। भवितव्यं च भूतानां यस् नास्ति व्यतिक्रमः
कथं हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम्। संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम्
न हि पापं कृतंकिंचित्कर्म वा निन्दितं क्वचित्। द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान्
तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः। तस्याः संहरणात्पापः शिरसः केशवापनम्
पराजयं च संग्रामे ससहाः समाप्तवान्। प्रत्याहृता तथाऽस्माभिर्हत्वा तत्सैन्धवं बलम्
तद्दारहरणं प्राप्तमस्माभिरवितर्कितम्। दुःखश्चायं वने वासो मृगयायां च जीविका
हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम्। ज्ञातिभिर्विप्रवासश्च मिथ्याव्यवसितैरियम्
अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः। भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा क्वचित्
प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ। रक्षसा जानकी तस्य हृता भार्या बलीयसा
आश्रमाद्राक्षसेन्द्रेण रावणेन दुरात्मना। मायामास्थाय तरसा हत्वा गृध्रं जटायुषम्
प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः। बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः
कस्मिन्नामः कुले जातः किंवीर्यः किंपराक्रमः। रावणः कस्य पुत्रो वा किं वैरं तस् तेन ह
एतन्मे भगवन्सर्वं सम्यगाख्यातुमर्हसि। `त्वया प्रत्यक्षोदृष्टं यथासर्वमशेषतः।' श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः
अजोनामाभवद्राजा महानिक्ष्वाकुवंशजः। तस् पुत्रो दशरथःशश्वत्स्वाध्यायवाञ्छुचिः
अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः। रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः
रामस्य माता कौसल्या कैकेयी भरतस्य तु। सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परंतपौ
विदेहराजो जनकः सीता तस्यात्मजा विमो। यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम्
एतद्रामस्य ते जन्म सीतायाश्च प्रकीर्तितम्। रावणस्यापि ते जन्म व्याख्यास्यामि रजनेश्वर
पितामहो रावणस्य साक्षाद्देवः प्रजापतिः। स्वयंभूः सर्वलोकानां प्रभुः स्रष्टा महातपाः
पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः। तस्य वैश्रवणो नाम गवि पुत्रोऽभवत्प्रभुः
पितरं स समुत्सृज्य पितामहमुपस्थितः। तस्य कोपात्पिता राजन्ससर्जात्मानमात्मना