जलेन समनुप्राप्ते सर्वतः पृथिवीतले। तदा चैकार्णवे तस्मिननेकाकाशे प्रभुश्चरन्
निशायामिव खद्योतः प्रावृट्काले समन्ततः। प्रतिष्ठानाय पृथिवीं मार्गमाणस्तदाऽभवत्
जले निमग्नां गां दृष्ट्वाचोद्धर्तुं मनसेच्छति। किंनु रूपमहं कृत्वासलिलादुद्धरे महीम्
एवं संचिन्त्य मनसा दृष्ट्वा दिव्येन चक्षुषा। जलक्रीडाभिरुचितं वाराहं रूपमस्मरत्
कृत्वा वराहवपुपं वाङ्मयं वेदसंमितम्। दशयोजनविस्तीर्णमायतं शतयोजनम्
महापर्वतवर्ष्माभं तीक्ष्णदंष्ट्रंप्रदीप्तिमत्। महामेघौघनिर्घोपं नीलजीमूतसन्निभम्
भूत्वा यज्ञवराहो वै अपः संप्राविशत्प्रभुः। दंष्ट्रेणैकेन चोद्धृत्यस्वे स्थाने न्यविशन्महीम्
पुनरेव महाबाहुरपूर्वां तनुमाश्रितः। नरस्य कृत्वाऽर्धतनुं सिंहस्यार्धतनुं प्रभुः
दैत्येन्द्रस्य सभां गत्वापाणिं संस्पृश्यपाणिना। दैत्यानामादिपुरुषः सुरारिर्दितिनन्दनः
दृष्ट्वा चापूर्ववपुषं क्रोधात्संरक्तलोचनः। शूलोद्यतकरः स्रग्वी हिरण्यकशिपुस्तदा
मेघस्तनितनिर्घोषो नीलाभ्रचयसन्निभः। देवारिर्दितिजो वीरो नृसिंहं समुपाद्रवत्
समुत्पत्य ततस्तीक्ष्णैर्मृगेन्द्रेण बलीयसा। नारसिंहेन वपुषादारितः करजैर्भृशम्
एवं निहत्य भगवान्दैत्येनद्रं रिपुघातिनम्। भूयोऽन्यः पुण्डरीकाक्षः प्रभुर्लोकहिताय च। कश्यपस्यात्मजः श्रीमानदित्या गर्भधारितः
पूर्णे वर्षसहस्रे तु प्रसूत भर्गमुत्तमम्
दुर्दिनाम्भोदसदृशो दीप्ताक्षो वामनाकृतिः। दण्डी कमण्डलुधरः श्रीवत्सोरसि भूषितः। जटी यज्ञोपवीती च भगवान्बालरूपधृक्
यज्ञवाटं गतः श्रीमान्दानवेन्द्रस्य वै तदा। बृहस्पतिसहायोऽसौ प्रविष्टो बलिनो मखे
तं दृष्ट्वावामनतनुं प्रहृष्टो बलिरब्रवीत्। प्रीतोस्मि दर्शने विप्र ब्रूहि त्वं किं ददानिते
एवमुक्तस्तु बलिना वामनः प्रत्युवाच ह
स्वस्तीत्युक्त्वा बलिं देवः स्मयमानोऽभ्यभाषत। मेदिनीं दानवपते देहि मे विक्रमत्रयम्
बलिर्ददौ प्रसन्नात्मा विप्रायामिततेजसे। ततो दिव्याद्भुततमं रूपं विक्रमतोहरेः
विक्रमैस्त्रिभिरक्षोभ्यो जहाराशु स मेदिनीम्। ददौ शक्राय च महीं विष्णुर्देवः सनातनः
एष ते वामनो नाम प्रादुर्भावः प्रकीर्तितः। तेन देवाः प्रादुरासन्वैष्णवं चोच्यते जगत्
असतां निग्रहार्थाय धर्मसंरक्षणाय च। अवतीर्णो मनुष्याणामजायत यदुक्षये। यं देवंविदुषोगान्ति तस्य कर्माणि सैन्दव
अनाद्यन्तमजं देवं प्रभुंलोकनमस्कृतम्। यं देवं विदुषोगान्तितस् कर्माणि सैन्धव
यमाहुरजितंकृष्णं शङ्खचक्रगदाधरम्। श्रीवत्सधारिणं देवं पीतकौशेयवाससम्
प्रधानं सोऽस्त्रविदुषां तेन कृष्णन रक्ष्यते
सहायः पुण्डरीकाक्षः श्रीमानतुलविक्रमः। समानस्यन्दने पार्थमास्थाय परवीरहा
न शक्यते तेन जेतुं त्रिदशैरपि दुःसहः। कः पुनर्मानुषो भावो रणे पार्थं विजेष्यति
तमेकं वर्जयित्वातु सर्वंयौधिष्ठिरं बलम्। चतुरः पाण्डवात्राजन्दिनैकं जेप्यसे रिपून्
तस्मात्त्वंपार्थरहितान्पाण्डवान्वारयिष्यसि। एतद्धि पुरुषव्याघ्र मया दत्तो वरस्तव