फणासहस्रविकटं शेषं पर्यङ्कभोगिनम्। सहस्रमिव तिग्मांशुसंघातममितद्युतिम्। कुन्देन्दुहारगोक्षीरमृणालकुमुदप्रभम्
तत्रासौ भगवान्देवः स्वपञ्जलनिधौ तदा। नैशेन तमसा व्याप्तां स्वां रात्रिंकुरुते विभुः
सत्वोद्रेकात्प्रबुद्धस्तु शून्यं लोकमपश्यत। इमं चोदाहरन्त्यत्रश्लोकं नारायणं प्रति
आपो नारास्तत्तनव इत्यपां नाम शुश्रुमः। अयनं तेन चैवास्ते तेन नारायणः स्मृतः
प्रध्यानसमकालं तुप्रजाहेतोः सनातनः। ध्यातमात्रे तु भगवन्नाभ्यां पद्मः समुत्थितः
ततश्चतुर्मुखो ब्रह्मा नाभिपद्माद्विनिःसृतः। तत्रोपविष्टः सहसा ब्रह्मा लोकपितामहः
शून्यं दृष्ट्वा जगत्कृत्स्नं मानसानात्मनः समान्। ततो मरीचिप्रमुखान्महर्षीनसृजन्नव
तेऽसृजन्सर्वभूतानि त्रसानि स्थावराणि च। यक्षराक्षसभूतानि पिशाचोरगमानुषान्
सृजते ब्रह्ममूर्तिस्तु रक्षते पौरुषी तनुः। रौद्री भावेन शमयेत्तिस्रोऽवस्थाः प्रजापतेः
न श्रुतं ते सिन्धुपते विष्णोरद्भुतकर्मणः। कथ्यमानानि मुनिभिर्ब्राह्मणैर्वेदपारगैः
जलेन समनुप्राप्ते सर्वतः पृथिवीतले। तदा चैकार्णवे तस्मिननेकाकाशे प्रभुश्चरन्
निशायामिव खद्योतः प्रावृट्काले समन्ततः। प्रतिष्ठानाय पृथिवीं मार्गमाणस्तदाऽभवत्
जले निमग्नां गां दृष्ट्वाचोद्धर्तुं मनसेच्छति। किंनु रूपमहं कृत्वासलिलादुद्धरे महीम्
एवं संचिन्त्य मनसा दृष्ट्वा दिव्येन चक्षुषा। जलक्रीडाभिरुचितं वाराहं रूपमस्मरत्
कृत्वा वराहवपुपं वाङ्मयं वेदसंमितम्। दशयोजनविस्तीर्णमायतं शतयोजनम्
महापर्वतवर्ष्माभं तीक्ष्णदंष्ट्रंप्रदीप्तिमत्। महामेघौघनिर्घोपं नीलजीमूतसन्निभम्
भूत्वा यज्ञवराहो वै अपः संप्राविशत्प्रभुः। दंष्ट्रेणैकेन चोद्धृत्यस्वे स्थाने न्यविशन्महीम्
पुनरेव महाबाहुरपूर्वां तनुमाश्रितः। नरस्य कृत्वाऽर्धतनुं सिंहस्यार्धतनुं प्रभुः
दैत्येन्द्रस्य सभां गत्वापाणिं संस्पृश्यपाणिना। दैत्यानामादिपुरुषः सुरारिर्दितिनन्दनः
दृष्ट्वा चापूर्ववपुषं क्रोधात्संरक्तलोचनः। शूलोद्यतकरः स्रग्वी हिरण्यकशिपुस्तदा
मेघस्तनितनिर्घोषो नीलाभ्रचयसन्निभः। देवारिर्दितिजो वीरो नृसिंहं समुपाद्रवत्
समुत्पत्य ततस्तीक्ष्णैर्मृगेन्द्रेण बलीयसा। नारसिंहेन वपुषादारितः करजैर्भृशम्
एवं निहत्य भगवान्दैत्येनद्रं रिपुघातिनम्। भूयोऽन्यः पुण्डरीकाक्षः प्रभुर्लोकहिताय च। कश्यपस्यात्मजः श्रीमानदित्या गर्भधारितः
पूर्णे वर्षसहस्रे तु प्रसूत भर्गमुत्तमम्
दुर्दिनाम्भोदसदृशो दीप्ताक्षो वामनाकृतिः। दण्डी कमण्डलुधरः श्रीवत्सोरसि भूषितः। जटी यज्ञोपवीती च भगवान्बालरूपधृक्
यज्ञवाटं गतः श्रीमान्दानवेन्द्रस्य वै तदा। बृहस्पतिसहायोऽसौ प्रविष्टो बलिनो मखे
तं दृष्ट्वावामनतनुं प्रहृष्टो बलिरब्रवीत्। प्रीतोस्मि दर्शने विप्र ब्रूहि त्वं किं ददानिते
एवमुक्तस्तु बलिना वामनः प्रत्युवाच ह
स्वस्तीत्युक्त्वा बलिं देवः स्मयमानोऽभ्यभाषत। मेदिनीं दानवपते देहि मे विक्रमत्रयम्
बलिर्ददौ प्रसन्नात्मा विप्रायामिततेजसे। ततो दिव्याद्भुततमं रूपं विक्रमतोहरेः