एवमुक्त्वा सटास्तस्य पञ्चचक्रे वृकोदरः। अर्धचन्द्रेण वाणेन किंचिदब्रुवतस्तदा
विकल्पयित्वा राजानं ततः प्राह वृकोदरः। जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु
दासोस्मीति त्वया वाच्यं संसत्सु च सभासु च। एवं चेज्जीवितं दद्यामेष युद्धजितो विधिः
एवमस्त्विति तं राजा कृच्छ्रमाणो जयद्रथः। प्रोवाच पुरुषव्याघ्रं भीममाहवशोभिनम्
तत एनं विचेष्टन्तं वद्ध्वा पार्थो वृकोदरः। रथमारोपयामास विसंज्ञं पांसुकुण्ठितम्
ततस्तं रथमास्थाय भीमः पार्तानुगस्तदा। अग्र्यमाश्रममध्यस्थामभ्यगच्छद्युधिष्ठिरम्
दर्शयामास भीमस्तु तदवस्थं जयद्रथम्। तं राजा प्राहसद्दृष्ट्वा मुच्यतामिति चाब्रवीत्
राजानं चाब्रवीद्भीमो द्रौपद्यै कथयेति वै। दासभावं गतो ह्येष पाण्डूनां पापचेतनः
तमुवाच च ततो ज्येष्ठो भ्राता सप्रणयं वचः। मुञ्चेममधमाचारं प्रमाणा यदि ते वयम्
द्रौपदी चाब्रवीद्भीममभिप्रेक्ष्य युधिष्ठिरम्। दासोऽयंमुच्यतां रात्रस्त्वयापञ्चशिखः कृतः
एवमुक्तः स भीमस्तु भ्रात्रा चैव च कृष्णया। मुमोच तं महापापं जयद्रथमचेतनम्
स मुक्तोऽभ्येत्यराजानमभिवाद्य युधिष्ठिरम्। ववन्दे विह्वलोराजातांश्च वृद्धान्मुनींस्तदा
तमुवाच धृणी राजा धर्मपुत्रो युधिष्ठिरः। तथाजयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना
अदासो गच्छ मुक्तोसि मैवं कार्षीः पुनः क्वचित्। स्त्रीकामुक धिगस्तु त्वां क्षुद्रः क्षत्रसहायवान्
एवंविधं हि क कुर्यात्त्वदनयः पुरुषाधमः। `कर्म धर्मविरुद्धं वै लोकदुष्टं च दुर्मते
गतसत्त्वमिव ज्ञात्वा कर्तारमशुभस्य तम्। संप्रेक्ष्यभरतश्रेष्ठः कृपां चक्रे नराधिपः
धर्मे ते वर्धतां वुद्धिर्मा चाधर्मे मनः कृथाः। साश्च साथपादातः स्वस्ति गच्छ जयद्रथ
एवमुक्तस्तु सव्रीजं तूष्णीं किंचिदवाङ्युखः। जगाम राजा दुःखार्तो गङ्गाद्वाराय भारत
स देवं शरणं गत्वा विरूपाक्षमुमापतिम्। तपश्चचार विपुलं तस्य प्रीतो वृषध्वजः
बलिं स्वयं प्रत्यगृह्णात्प्रीयमाणस्त्रिलोचनः। वरं चास्मै ददौ देवः स जग्राह च तच्छृणु
समस्तान्सरथान्पञ्चजयेयं युधि पाण्डवान्। इति राजाऽब्रवीद्देवं नेति देवस्तमब्रवीत्
अजय्यांश्चाप्यवध्यांश्च वारयिष्यसि तान्युधि। ऋतेऽर्जुनं महाबाहुं नरं नाम सुरेश्वरम्
बदर्यां तप्ततपसं नारायणसहायकम्। अजितं सर्वलोकानां देवैरपि दुरासदम्
मया दत्तं पाशुपतं दिव्यमप्रतिमं शरम्। अवाप लोकपालेभ्यो वज्रादीन्स महाशरान्
देवदेवो ह्यनन्तात्मा विष्णुः सुरगुरुः प्रभुः। प्रधानपुरुषोऽव्यक्तोविश्वात्माविश्वमूर्तिमान्
युगान्तकाले संप्राप्ते कालाग्निर्दहते जगत्। सपर्वतार्णवद्वीपं सशैलवनकाननम्। निर्दहन्नागलोकांश्चपातालतलचारिणः
अथान्तरिक्षे सुमहन्नानावर्णाः पयोधराः। घोरस्वरा विनदिनस्तटिन्मालावलम्बिनः। समुत्तिष्ठन्दिशः सर्वाविवर्षन्तः समन्ततः
ततोऽग्नीं शमयामासुः संवर्ताग्निनियामकाः। अक्षमात्रैश्च धाराभिस्तिष्ठन्त्यापूर्य सर्वशः
एकार्णवे तदातस्मिन्नुपशान्तचराचरे। नष्टचन्द्रार्कपवने ग्रहनक्षत्रवर्जिते। चतुर्युगसहस्रान्ते सलिलेनाप्लुता मही
ततो नारायणाख्यस्तु सहस्राक्षः सहस्रपात्। सहस्रशीर्पा पुरुषः स्वप्नुकामस्त्वतीन्द्रियः