स तैः परिवृतो राजातत्रैवोपविवेश ह। प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी
भीमसेनार्जुनौ चापि श्रुत्वा क्रोशगतं रिपुम्। स्वयमश्वांस्तुदन्तौ तौ जवेनैवाभ्यधावताम्
इदमत्यद्भुतं चात्र चकारातिरथोऽर्जुनः। क्रोशमात्रगतानश्वान्सैन्धवस्य जघान यत्
स हि दिव्यास्त्रसंपन्नः कृच्छ्रकालेऽप्यसंभ्रमः। अकरोद्दुष्करं कर्म शरैरस्त्रानुमन्त्रितैः
ततोऽभ्यधावतां वीरावुभौ भीमधनंजयौ। हताश्वं सैन्धवं भीतमेकं व्याकुलचेतसम्
सैन्धवस्तु हतान्दृष्ट्वा तथाऽश्वान्स्वान्सुदुःखितः। `रथात्प्रस्कन्द्य पद्भ्यां वै पलायनपरोऽभवत्
दृष्ट्वा रविक्रमकर्माणि कुर्वाणं च धनंजयम्। पलायनकृतोत्साहः प्राद्रवद्येन वै वनम्
सैन्धवं त्वमिसंप्रेक्ष्यपराक्रान्तं पलायने। अनुयाय महाबाहुः फल्गुनो वाक्यमब्रवीत्
अनन वीर्येण कथं स्त्रियं प्रार्थयसे बलात्। राजपुत्र निवर्तस्व न ते युक्तं पलायनम्
कथं ह्यनुचरान्हित्वा शत्रुमध्ये पलायसे। इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत
तिष्ठतिष्ठेति तं भीमः सहसाऽभ्यद्रवद्बली। मा वधीरिति पार्थस्तं दयावान्प्रत्यभाषत
जयद्रथस्तु संप्रेक्ष्यभ्रातरावुद्यतायुधौ। प्रादावत्तूर्णमव्यग्रो जीवितेप्सुः सुदुःखितः
लताभिः संवृते कक्षे किरीटं रत्नभास्वरम्। अपविध्यप्रधावन्तं निलीयन्तं वनान्तरे
भीमसेनस्तु तं कक्षे लीयमानं भयाकुलम्। मार्गमाणोऽवतीर्याशु रथाद्रत्नविभूपितात्'। अभिद्रुत्य निजग्राहकेशपक्षे ह्यमर्षणः
समुद्यम्य च तं भीमो निष्पिपेप महीतले। गले गृहीत्वाराजानं पातयामास चैव ह
पुनः स जीवमानस्य तस्योत्पतितुमिच्छतः। पदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः
तस्य जानू ददौ भमो जघ्ने चैनमरत्निना। स मोहमगमद्राजा प्रहारवरपीडितः
सरोषं भीमसेनं तु वारयामास फल्गुनः। दुःशलायाः कृतेराजा यत्त्वामाहेति कौरव
नायं पापसमाचारो मत्तो जीवितुमर्हति। कृष्णायास्तदनर्हायाः परिक्लेष्टा नराधमः
किंनु शक्यं मया कर्तुं यद्राजा सततं घृणी। त्वं च बालिशया बुद्ध्या सदैवास्मान्प्रबाधसे
एवमुक्त्वा सटास्तस्य पञ्चचक्रे वृकोदरः। अर्धचन्द्रेण वाणेन किंचिदब्रुवतस्तदा
विकल्पयित्वा राजानं ततः प्राह वृकोदरः। जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु
दासोस्मीति त्वया वाच्यं संसत्सु च सभासु च। एवं चेज्जीवितं दद्यामेष युद्धजितो विधिः
एवमस्त्विति तं राजा कृच्छ्रमाणो जयद्रथः। प्रोवाच पुरुषव्याघ्रं भीममाहवशोभिनम्
तत एनं विचेष्टन्तं वद्ध्वा पार्थो वृकोदरः। रथमारोपयामास विसंज्ञं पांसुकुण्ठितम्
ततस्तं रथमास्थाय भीमः पार्तानुगस्तदा। अग्र्यमाश्रममध्यस्थामभ्यगच्छद्युधिष्ठिरम्
दर्शयामास भीमस्तु तदवस्थं जयद्रथम्। तं राजा प्राहसद्दृष्ट्वा मुच्यतामिति चाब्रवीत्
राजानं चाब्रवीद्भीमो द्रौपद्यै कथयेति वै। दासभावं गतो ह्येष पाण्डूनां पापचेतनः
तमुवाच च ततो ज्येष्ठो भ्राता सप्रणयं वचः। मुञ्चेममधमाचारं प्रमाणा यदि ते वयम्
द्रौपदी चाब्रवीद्भीममभिप्रेक्ष्य युधिष्ठिरम्। दासोऽयंमुच्यतां रात्रस्त्वयापञ्चशिखः कृतः