यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना। प्राप्याश्रमपदं राजन्द्रौपदीं परिसान्त्वय
न हि मे मोक्ष्यतेजीवन्मूढः सैन्धवको नृपः। पातालतलसंस्थोपि यदि शक्रोस्य सारथिः
न हन्तव्यो महाबाहो दुरात्माऽपिस सैन्धवः। दुःशलामभिसंस्मृत्य गान्धारीं च यशस्विनीम्
तच्छ्रुत्वा द्रौपदी भीममुवाच व्याकुलेन्द्रिया। कुपिता ह्रीमती प्राज्ञा पती भीमार्जुनावुभौ
कर्तव्यं चेत्प्रियं मह्यं वध्यः स पुरुषाधमः। सैन्धवापशदः पापो दुर्मतिः कुलपांसनः
भार्याभिहर्ता वैरी यो यश्च राज्यहरो रिपुः। याचमानोऽपिसंग्रामे न मोक्तव्यः कथंचन
इत्युक्तौ तौ नरव्याघ्रौ ययतुर्यत्र सैन्धवः। राजा निववृतेकृष्णामादाय सपुरोहितः
स प्रविश्याश्रमपदमपविद्धवृसीकटम्। मार्कण्डेयादिभिर्विप्रैरनुकीर्णं ददर्श ह
द्रौपदीमनुशोचद्भिर्ब्राह्मणैस्तैः समाहितैः। समेयाय महाप्राज्ञः सभार्य भ्रातृमध्यगः
ते स्म तं मुदिता दृष्ट्वा पुनरप्यागतं नृपम्। जित्वा तान्सिनधुसौवीरान्द्रौपदीं चाहृतां पुनः
स तैः परिवृतो राजातत्रैवोपविवेश ह। प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी
भीमसेनार्जुनौ चापि श्रुत्वा क्रोशगतं रिपुम्। स्वयमश्वांस्तुदन्तौ तौ जवेनैवाभ्यधावताम्
इदमत्यद्भुतं चात्र चकारातिरथोऽर्जुनः। क्रोशमात्रगतानश्वान्सैन्धवस्य जघान यत्
स हि दिव्यास्त्रसंपन्नः कृच्छ्रकालेऽप्यसंभ्रमः। अकरोद्दुष्करं कर्म शरैरस्त्रानुमन्त्रितैः
ततोऽभ्यधावतां वीरावुभौ भीमधनंजयौ। हताश्वं सैन्धवं भीतमेकं व्याकुलचेतसम्
सैन्धवस्तु हतान्दृष्ट्वा तथाऽश्वान्स्वान्सुदुःखितः। `रथात्प्रस्कन्द्य पद्भ्यां वै पलायनपरोऽभवत्
दृष्ट्वा रविक्रमकर्माणि कुर्वाणं च धनंजयम्। पलायनकृतोत्साहः प्राद्रवद्येन वै वनम्
सैन्धवं त्वमिसंप्रेक्ष्यपराक्रान्तं पलायने। अनुयाय महाबाहुः फल्गुनो वाक्यमब्रवीत्
अनन वीर्येण कथं स्त्रियं प्रार्थयसे बलात्। राजपुत्र निवर्तस्व न ते युक्तं पलायनम्
कथं ह्यनुचरान्हित्वा शत्रुमध्ये पलायसे। इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत
तिष्ठतिष्ठेति तं भीमः सहसाऽभ्यद्रवद्बली। मा वधीरिति पार्थस्तं दयावान्प्रत्यभाषत
जयद्रथस्तु संप्रेक्ष्यभ्रातरावुद्यतायुधौ। प्रादावत्तूर्णमव्यग्रो जीवितेप्सुः सुदुःखितः
लताभिः संवृते कक्षे किरीटं रत्नभास्वरम्। अपविध्यप्रधावन्तं निलीयन्तं वनान्तरे
भीमसेनस्तु तं कक्षे लीयमानं भयाकुलम्। मार्गमाणोऽवतीर्याशु रथाद्रत्नविभूपितात्'। अभिद्रुत्य निजग्राहकेशपक्षे ह्यमर्षणः
समुद्यम्य च तं भीमो निष्पिपेप महीतले। गले गृहीत्वाराजानं पातयामास चैव ह
पुनः स जीवमानस्य तस्योत्पतितुमिच्छतः। पदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः
तस्य जानू ददौ भमो जघ्ने चैनमरत्निना। स मोहमगमद्राजा प्रहारवरपीडितः
सरोषं भीमसेनं तु वारयामास फल्गुनः। दुःशलायाः कृतेराजा यत्त्वामाहेति कौरव
नायं पापसमाचारो मत्तो जीवितुमर्हति। कृष्णायास्तदनर्हायाः परिक्लेष्टा नराधमः
किंनु शक्यं मया कर्तुं यद्राजा सततं घृणी। त्वं च बालिशया बुद्ध्या सदैवास्मान्प्रबाधसे