नकुलस्त्वपभीस्तस्माद्रथाच्चर्मासिपाणिमान्। उद्धाम्य स्तानमास्थाय तस्थौ गिरिवाचलः
सुरथस्तं गजवरं वधाय नकुलस्य तु। प्रेषयामास सक्रोधमत्युच्छ्रितकरं ततः
नकुलस्तस्य नागस्य समीपपरिवर्तिनः। सविषाणं भुजं मूले खङ्गेन निरकृन्तत
स विनद्यमहानादं गजः किङ्किणिभूषणः। पतन्नवाक्शिरा भूमौ हस्त्यारोहमपोथयत्
स तत्कर्म महत्कृत्वा शूरो माद्रवतीसुतः। भीमसेनरथं प्राप्य शर्म लेभे महारथः
भीमस्त्वापततो राज्ञः कोटिकाश्यस् संगरे। सूतस्य नुदतो वाहान्क्षुरेणापाहरच्छिरः
न बुबोध हतं सूतं स राजा बाहुशालिना। तस्याश्वा व्यद्रवन्सङ्ख्ये हतमसूतास्ततस्ततः
विरथं हतसूतं तं भीमः प्रहरतांवरः। जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः
द्वादशानां तु सर्वेषां सौवीराणां धनंजयः। चकर्त निशितैर्भल्लैर्धनूंषि च शिरांसि च
शिबीनिक्ष्वाकुमुख्यांश्च त्रिगर्तान्सैन्धवानपि। जघानातिरथः सङ्ख्ये बाणगोचरमागतान्
सूदिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना। सपताकाश्च मातङ्गाः सध्वजाश्च महारथाः
प्रच्छाद्य पृथिवीं तस्थुः सर्वमायोधनं प्रति। शरीराण्यशिरस्कानि विदेहानि शिरांसि च
श्वगृध्रकङ्ककाकोलभासगोमायुवायसाः। अतृप्यंस्तत्रवीराणां हतानां मासशोणितैः
एवं तीक्ष्णशरज्वालैर्गाण्डीवानिलचोदितैः। सेनेन्धनं ददाहाशु सरोषः पार्थपावकः
चक्राणां पतितानां च युगानां च महीपते। तूणीराणआं पताकानां ध्वजानां च रथैः सह
ईषाणामनुकर्षाणां त्रिवेणूनां तथैव च। अक्षाणामथ योक्राणां प्रतोदानां च राशयः
शिरसां पतितानां च कुण्डलोष्णीषधारिणाम्। भुजानां मकुटानां च हाराणामङ्गदैः सह
छत्राणां व्यजनानां च चर्मणआं वर्मणां तथा। छिन्नानां कार्मुकाणां च पट्टसानां तथैव च
शक्तीनामथ खङ्गानां दण्डानां सह तेमरैः। राशयश्चात्रदृश्यन्ते तत्रतत्र विशांपते
पतितैश्चैव मातङ्गैः सयोधैः पर्वतोपमैः। हयैर्द्विधाकृतैः सार्धं सादिभिः सायुधैस्तथा
विप्रविद्धै रथैश्चैव निहतैश्चपदातिभिः। अगम्यरूपा पृथिवी मांसशोणितकर्दमा
हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः। विमुच्य कृष्णां संत्रस्तः पलायनपरोऽभवत्
स तस्मिन्संकुले सैन्ये द्रौपदीमवतार्य ताम्। प्राणप्रेप्सुरुपाधावद्वनं तत्र नराधमः
द्रौपदीं धर्मराजस्तु दृष्ट्वा धौम्यपुरस्कृताम्। माद्रीपुत्रेण वीरेण रथमारोपयत्तदा
ततस्तद्विद्रुतं सैन्यमपयाते जयद्रथे। आदिश्यादिश्य नाराचैराजघान वृकोदरः
सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम्। वारयामास निघ्नन्तं भीमं सैन्धवसैनिकान्
यस्यापचारात्प्राप्तोऽयमस्मान्क्लेशो दुरासदः। तमस्मिन्समरोद्देशे न पश्यामि जयद्रथम्
मूढं नैकृतिकं दुष्टं द्रौपद्याः क्लेशकारिणम्'। तमेवान्विष भद्रं ते किं ते योधैर्निपातितैः। अनामिषमिदं कर्म कथं वा मन्यते भवान्
इत्युक्तो भीमसेनस्तु गुडाकेशेन धीमता। युधिष्ठिरमभिप्रेत्य वाग्मी वचनमब्रवीत्
हतप्रवीरा रिपवो भूयिष्ठं विद्रुता दिशः। गृहीत्वा द्रौपदीं राजन्निवर्ततु भवानितः