अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया। तुण्डयुद्धमथाकाशे तावुभौ संप्रचक्रतुः
युद्ध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि। तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सरा
मीनभावमनुप्राप्ता बभूव यमुनाचरी। श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम्
जग्राह तरसोपेत्य साऽद्रिका मत्स्यरूपिणी। कदाचिदपि मत्सीं तां बबन्धुर्मत्स्यजीविनः
मासे च दशमे प्राप्ते तदा भरतसत्तम।। उज्जह्रुरुदरात्तस्याः स्त्रीं पुमांसं च मानुषौ
आश्चर्यभूतं तद्गत्वा राज्ञेऽथ प्रत्यवेदयन्। काये मत्स्या इमौ राजन्संभूतौ मानुषाविति
तयोः पुमांसं जग्राह राजोपरिचरस्तदा। स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः
साऽप्सरा मुक्तशापा च क्षणेन समपद्यत। या पुरोक्ता भगवता तिर्यग्योनिगता शुभा
मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि। ततः साजनयित्वा तौ विशस्ता मत्स्यघातिभिः
संत्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च। सिद्धर्षिचारणपथं जगामाथ वराप्सराः
सा कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी। राज्ञा दत्ता च दाशाय कन्येयं ते भवत्विति
रूपसत्वसमायुक्ता सर्वैः समुदिता गुणैः। सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात्
आसीत्सा मत्स्यगन्धैव कंचित्कालं शुचिस्मिता। शुश्रूषार्थं पितुर्नावं वाहयन्तीं जले च ताम्
तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः। अतीव रूपसंपन्नां सिद्धानामपि काङ्क्षिताम्
दृष्ट्वैव स च तां धीमांश्चकमे चारुहासिनीम्। दिव्यां तां वासवीं कन्यां रम्भोरूं मुनिपुङ्गवः
संभवं चिन्तयित्वा तां ज्ञात्वा प्रोवाच शक्तिजः। क्व कर्णधारो नौर्येन नीयते ब्रूहि भामिनि
अनपत्यस्य दाशस्य सुता तत्प्रियकाम्यया। सहस्रजनसंपन्ना नौर्मया वाह्यते द्विज
शोभनं वासवि शुभे किं चिरायसि वाह्यताम्। कलशं भविता भद्रे सहस्रार्धेन संमितम्
मत्स्यगन्धा तथेत्युक्त्वा नावं वाहयतां जले
वीक्षमाणं मुनिं दृष्ट्वा प्रोवाचेदं वचस्तदा। मत्स्यगन्धेति मामाहुर्दाशराजसुतां जनाः
दिव्यज्ञानेन दृष्टं हि दृष्टमात्रेण ते वपुः
प्रणयग्रहणार्थाय वक्ष्येव वासवि तच्छृणु। बर्हिषद इति ख्याताः पितरः सोमपास्तुते
तेषां त्वं मानसी कन्या अच्छोदा नाम विश्रुता। अच्छोदं नाम तद्दिव्यं सरो यस्मात्समुत्थितम्
त्वया न दृष्टपूर्वास्तु पितरस्ते कदाचन। संभूता मनसा तेषां पितॄन्स्वान्नाभिजानती
सा त्वन्यं पितरं वव्रे स्वानतिक्रम्य तान्पितॄन्। नाम्ना वसुरिति ख्यातं मनुपुत्रं दिवि स्थितम्
अद्रिकाऽप्सरसा युक्तं विमाने दिवि विष्ठितम्। सा तेन व्यभिचारेण मनसा कामचारिणी
पितरं प्रार्थयित्वाऽन्यं योगाद्भष्टा पपात सा। अपश्यत्पतमाना सा विमानत्रयमन्तिकात्
त्रसरेणुप्रमाणांस्तांस्तत्रापश्यत्स्वकान्पितॄन्। सुसूक्ष्मानपरिव्यक्तानङ्गैरङ्गेष्विवाहितान्
तातेति तानुवाचार्ता पतन्ती सा ह्यधोमुखी। तैरुक्ता सा तु माभैषीस्तेन सा संस्थिता दिवि
ततः प्रसादयामास स्वान्पितॄन्दीनया गिरा। तामूचुः पितरः कन्यां भ्रैष्टश्वर्यां व्यतिक्रमात्